SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan श्री अजितसेन शीलवती द्वितीयः प्रस्तावः। चरितम् । ॥५३॥ न्क्षणे विजयसेनो नवयौवनां हंसगामिनी शशिवदनां चम्पकवतीमकाले स्वसम्मुखस्थितां विलोक्य परमं विस्मयं प्राप। तदानीं तस्या रूपसौन्दर्यमहिमानं कियन्तं वर्णयामि ? यस्य विलोकनेनसुरेन्द्राणां मनांस्यपि चलन्ति, पामराणान्तु का कथा' अथ तेजःपुञ्ज प्रसारयन्तीसाबाला प्रोवाच-मित्र? पुरा विद्याभ्यासकाले पाठशालायां तवाग्रे मयैवं प्रतिज्ञातम्, वि| वाहकालादूर्द्धमृतुसमये प्राप्ते पतिसंयोगात्प्राक्त्वया सह रतिविलासं समाचरिष्ये । अतोहमिदानीं तद्वचनप्रतिबद्धा मद्भ राज्ञा समादायात्र समागताऽस्मि । रजोदर्शनस्यायं पञ्चमो वासरो विद्यते । तस्मादिच्छानुसारेण यथासुखं वकार्य विधायशीघ्र मामितो विसर्जय, मदुक्तवचनाच मा निर्मुक्तां कुरु । इत्थं चम्पकवतीवाक्यानि निशम्य विजयसेनोवादीत्-सत्यवादिनि ? त्वं धन्यासि, धन्यानामपि धन्यतमाऽसि । इति मुहुर्मुहुस्तां प्रशंसन् पुनप्राह-मागिनि इदानीमधर्मबुद्ध्या कामातुरो भूत्वाऽहं सत्यशालिन्या सुसत्या त्वयासह मोगं भुक्त्वा दुर्गतिं प्रयातुनेच्छामि । एवं सुविचारप्रेरितो विजयसेनः परमलावण्यनिधि प्राप्तयौवना स्वयमेवसंभोगायरहास समायाता तांबाला कृताञ्जलिः सन्प्रोवाच-कुमारिके ? सत्यसङ्कल्पे ! धर्मचारिणि । हे सुभगे? ममवचनंशृणु, धन्यात्वमसि, सत्यसीमानंनजहासि, यतोबाल्येवयसिस्वप्रतिज्ञातवचनंसत्यापयितुमत्रसमागतासि, अत:स्ववचनमवितथंमत्वाऽहंत्वामस्माद्वचनान्मुक्तांकराोम, त्वंनिजभर्तुः समीपंसुखेनयाहि, तश्चसेवस्व, भगवान्विश्वपालकोभासह तवरक्षणंसदाविदधातु । आवामेकगुरोःसमीपेविद्याभ्यासंसहैवाकार्श्व, तस्मादावाविद्यासंबन्धात्सहोदरौस्वः । एवमद्यप्रभृतित्वं विजानीहि । इत्थमभिधायविजयसेनोभागिनीवत्तस्यैवस्त्रालङ्कारान्दत्वातस्मिन्नेवचणे ताव्यसृजत् । अतोनिर्गत्याध्वनि प्रचलन्तीचम्पकवतीतस्ययक्षस्यस्थानसमासाद्यतमुचैःस्वरेणसमाजुहाव-तस्या ध्वनिश्रुत्वापिशाचस्तत्रागत्यतामवोचत्-भ ॥ ५५ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy