SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ यस्यास्ति वित्तं स नर: कुलीन: स एव वक्ता स च दर्शनीयः । स पण्डितः स श्रुतवान् गुणज्ञः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा। मधु तिष्ठति वाचि योषिताम् हृदये हलाहलं महद्विषम् ॥ भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे। नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना ___ छायेव मैत्री खलसज्जनानाम् ॥ वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचि र्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।। ૧ર
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy