________________
टिप्पनक-परागविवृतिसंवलिता खेचरमिथुनस्य शुचिप्रदोषेषु शोभामधरीचकार विद्याधरलोकस्य [3], यस्याश्च गगनशिखोल्लेखिना प्राकारशिखरेण स्खलितवमा प्रस्तुतचाटुरिव प्रत्यप्रवन्दनमालाश्यामलामधिगोपुरं विलम्बयामास वासरमुखेषु रविरथाश्वपट्टिमरणः [ड], यस्यां च प्रियतमाभिसारप्रचलिसानां पण्याङ्गनानामङ्गलावण्यसंवर्धिताभिराभरणरत्नांशुसन्ततिभिः स्तम्भिततिमिरोदया भवनदीर्घिकासरोजवननिद्राभिरन्वमीयन्त रजनीसमारम्भाः [6], या च दक्षिणानिलतरङ्गितानां प्रतिभवनमुच्छ्रितानामनङ्गध्वजानामङ्गुलीविभ्रमाभिरालोहितांशुकवैजयन्तीभिः कृतमकरध्वजालोषमहापातकस्य शूलपाणेर्दत्तावकाशामलकापुरीमिव तर्जयन्ती मधुसमये समलक्ष्यत [ ण ], यस्यां च मुदितगृहशिखण्डिकेकारवमुखरिताभिस्तरणजलद
विलासिनी च विलासशीला च, तौ विलासिनी, स्त्रीलिङ्गेन सहोक्तौ पुल्लिङ्गस्यैव शेषानुशासनात् , तयोमिथुनं-द्वन्द्वम् , तैः, स्त्रीसैरित्यर्थः, अवगाहमानगगनान्तरा अवगाश्यमानं गगनान्तरम्-आकाशमध्यं यस्यां तादृशी, शुचिप्रदोषेषु शुक्लपक्षरजनीमुखेषु, समन्ताद्-अप्रतिहतम्, अन्तरिक्षसञ्चरत्नेचरमिथुनस्य अन्तरिक्षे-आकाशे, सञ्चरन्ति-विहरमाणानि, खेचराणाम्-आकाशविहारिणाम् , विद्याधराणामित्यर्थः, मिथुनानि-युगलानि यस्मिन् तादृशस्य, विद्याधरलोकस्य विद्यानां गगनतलविहाराधुपयोगिविद्यानाम् , धराः-धारयितार इति विद्याधराः, सुकृतिनो मानवविशेषाः, तेषाम् , लोकस्य-वैतान्धरूपप्रदेशस्य, शोभा छविच्छटाम् ; अधरीचकार तिरश्चकार, अणिमादिसिद्ध्यायासं विनैव तद्वदव्याहतगगनतलसञ्चारसौभाग्यनिष्पत्तेरिति भावः, "किरणोसमयूखांशुगभस्तिघृणिरश्मयः" इति, "शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः" इति, "नभोऽन्तरिक्ष गगनम्” इति, "लोकस्तु भुवने जने” इति चामरः, “करो वर्षांपले रश्मी पाणौ प्रत्यायशुण्डयोः” इति मेदिनी, [] । च पुनः, यस्याः प्रक्रान्तपूर्वाया अयोध्यानगर्याः, अधिगोपुरं गोपुरेषु-पुरद्वारेषु, गगनशिखोल्लेखिना गगनशिखा-गगनचरमोर्ध्वदेशः, तदुल्लेखिना-तदभिव्यापिना, तद्वदुन्नतेनेत्यर्थः, प्राकारशिखरेण प्राकारमौलिना, स्वलितवा स्खलितं व्याहृतं वर्म मार्गो यस्य तादृशः सन् , अरुणः सूर्यसारथिः, प्रस्तुतचाटुरिव प्रस्तुतम्-उपस्थायितम् , वक्तुमारब्धमित्यर्थः, चाटु मार्गाव्याघाताय प्राकारशिखरप्रार्थनात्मकं प्रियवाक्यं येन तादृश इच, तद्वक्तुमिवेति वक्ष्यमाणविलम्बहेतूत्प्रेक्षा, प्रत्यग्रवन्दनमालाश्यामलां प्रत्यग्रा:-अभिनवाः, या वन्दनमालाः-निरुक्तप्राकारलम्बिततोरणस्रजः, ताभिः श्यामलाहरितामिवेति प्रतीयमानोत्प्रेक्षा, रविरथाश्वपति रविरथस्य-सूर्यरथस्य, तद्वाहिकामित्यर्थः, अश्वपति-पतिबद्धाश्वसमूहम् , वासरमुखेषु दिवसारम्भेषु, विलम्बयामास निरुक्तप्राकारप्रार्थनानुरोधेन स्थगयामास [ड] । च पुनः, यस्यां प्रकृतनगर्याम् , प्रियतमाभिसारप्रचलितानां प्रियतमाभिसाराय प्रियतमस्य-खप्रणयातिशयास्पदपुरुषस्य, तादृशपुरुषकर्मक इत्यर्थः, योऽभिसारः-तत्सङ्केतितस्थाने तदुपस्थानम् , तस्मै, प्रचलितानां-निजनिकेतननिष्कान्तानाम् , पण्याइनानां क्रेतव्यमैथुनककामिनीनाम् , वेश्यानामित्यर्थः, अङ्गलावण्यसंवर्धिताभिः शरीरसौन्दर्यसमेधिताभिः, तदङ्गद्युतिदिग्धाभिरित्यर्थः, आभरणरत्नांशुसन्ततिभिः आभरणानां-हाराद्यलङ्काराणाम, यानि रत्नानि, तदंशुसन्ततिभिः-तत्किरणगणैः, स्तम्भिततिमिरोदया स्तम्भितः-प्रतिबद्धः, तिमिरोदयः-अन्धकारोद्गमो येषु तादृशाः,रजनीसमारम्भाः रात्रिप्रारम्भाः, भवनदीर्घिकासरोजवननिद्राभिः भवनदीर्घिकासु-अन्तःपुरवापिकासु, यानि सरोजवनानि-कमलवनानि, तन्निद्राभिःतत्सकोचैः, अन्वमीयन्त एतत् सरोजवनं निशारम्भकालापन्नं सङ्कोचवत्त्वात् , इत्यनुमानप्रमाणेन प्रामीयन्त, न स्वन्धकारोद्गमेन, कमलसकोचविकासाभ्यामेव तत्र दिनरात्रिविभाग इत्यर्थः [ढ]। च पुनः, या प्रकृतनगरी, मधुसमये वसन्तसमये चैत्रसमये वा, अलकापुरी कुबेरपुरीम् , तर्जयन्तीव भर्सयन्तीव, समलक्ष्यत प्रतीयते स्म, प्रतिभाति स्मेत्यर्थः, कीदृशीम पुरीम् ? कृतमकरध्वजप्योषमहापातकस्य खनेत्रोद्भतामिना मदनदहनसच्चितमहापापस्य शूलपाणेः शिवस्य, दत्तावकाशां दत्तस्थानाम् , महापातकिने स्थानदानस्यापि निषेधात्, किंद्वारा तर्जनम् ? दक्षिणानिलतरङ्गितानां दक्षिणस्या दिशो योऽनिलो वायुस्तेन तरङ्गितानां-सजाततरङ्गानाम् , तेनातिवेलमुद्वेलितानामित्यर्थः, प्रतिभवनं प्रतिप्रासादम् ; उच्छ्रितानाम् उद्भूतानाम् , अनङ्गध्वजानां कामदेवध्वजानाम् , कामदेवार्चनोत्सवारोपितध्वजस्तम्भानामित्यर्थः, अङ्गुलीविभ्रमाभिः अङ्गुल्या विभ्रमो विशिष्टा श्रान्तिर्यासु ताभिः, अछुल्यनुकारिणीभिरित्यर्थः, लोहितांशुकवैजयन्तीभिः रक्तवस्त्रपताकाभिः, तद्वारेत्यर्थः [ण] | च पुनः, यस्याम् अयोध्यानगर्याम् , सुकृतिनः भाग्यवन्तो जनाः,