________________
५४
टिप्पनक-परागविवृतिसंवलिता युगेव सत्पुरुषव्यवहारैः, समकरध्वजराज्येव पुरन्ध्रिबिब्बोकैः, सब्रह्मलोकेव द्विजसमाजैः, ससमुद्रमथनेव जनसंघातकलकलेन [ज], विततप्रभावर्षिभिराभरणपाषाणखण्डैरिव पाखण्डैर्मुषितकल्मषा, जपानुरागिभिरुपवनैरिव श्रोत्रियजनैः सच्छाया, विचित्राकारवेदिभिरङ्गणैरिव नागरिकगणैरलङ्कृतगृहा, सवनराजिभिः सामस्वरैरिव क्रीडापर्वतकपरिसरैरानन्दितद्विजा [ झ], विश्वकर्मसहनैरिव निर्मितप्रासादा, प्रजापतिसहरिवोत्पादितपौरा, लक्ष्मीसहौरिव परिगृहीतगृहा, देवतासहस्रैरिवाधिष्ठित प्रदेशा
विततप्रभावर्षिभिः विस्तृततेजोवर्षकैः, अन्यत्र विस्तृतप्रतापमुनिभिः । एकत्र जपानुरागिभिः जपाकुसुमरक्ततायुक्तः, अन्यत्र जपानुषक्तैः । एकत्र विचित्राकारवेदिभिः नानाकृतिचत्वरिकैः, अन्यत्र भनेकाकारज्ञातृभिः। एकन सवनराजिभिः यज्ञशोभिभिः, अन्यन्न वनपशिसहितैः [२] ।
हीतदर्पणेव खसौन्दर्यदिदृक्षया सदैव समन्तादधोधृतदर्पणेवेत्युत्प्रेक्षा, अत्र सर्वत्र नारीपदानुपादानेऽपि उत्प्रेक्षितविशेषणसाम्येन नारीप्रतीतिरिति उत्प्रेक्षासमासोक्तिसङ्करः, श्लिष्टविशेषणस्थले तु श्लेषालङ्कारोऽग्यवतरतीति त्रयाणां तेषां सङ्करो बोध्यः [छ] पुनः कीदृगसौ नगरी? सत्पुरुषव्यवहारैः सद्भिः-सुन्दरैः, सत्यतामयैरित्यर्थः, पुरुषव्यवहारः-पुरुषक्रियाभिः, सताम्उत्तमानाम् , सत्यशीलानां धार्मिकाणामित्यर्थः, पुरुषाणां-जनानाम् , व्यवहारैः-सदाचरणैः, सकृतयुगेव कृतयुगेन-सत्ययुगेन, सहितेवेत्युत्प्रेक्षा। पुनः कीदृशी ? पुरन्ध्रिविब्बोकैः पुरन्ध्रीणां-पुत्रादिकुटुम्बवतीनां स्त्रीणाम् , चिब्बोकैः-विलासः, समकरध्वजराज्येव मकरध्वजस्य-कामदेवस्य, राज्यं-राज्ञो भावो राज्यम् , आधिपत्यमित्यर्थः, तेन सहितेवेत्युत्प्रेक्षा । पुनः द्विजसमाजैः ब्राह्मणसमूहैः, सब्रह्मलोकेव ब्रह्मलोकेन सहितेवेत्युत्प्रेक्षा । पुनः जनसङ्घातकलकलेन तनगरीनिवास्तव्यासङ्घय जनताकोलाहलेन, ससमुद्रमथनेव समुद्रमथनकालिंककोलाहलाकुलेवेत्युत्प्रंक्षाज । पुनः आभरणपाषाणखण्डरिव आभरणानां-भूषणानाम् , भूषणप्रकृतिरूपा इत्यर्थः, ये पाषाणा:-प्रस्तरा मणिपदव्यवहार्याः, तेषां खण्डेरिवशकलैरिव, विततप्रभावर्षिभिः विततः-विस्तृतः, प्रभावः-अनुभावो येषो तादृशैः, ऋषिभिः-मुनिजनैः, पक्षे वितताविस्तृता, या प्रभा-धुतिः, तद्वर्षिभिः-तद्वर्षणशीलैः, पाखण्डैः पाखण्डनकारिभिः, मुषितकल्मषा अपहृतपापा अपहृततमाश्च । पुनः कीदृशी ? उपवनरिव क्रीडाकाननैरिव, जयानुरागिभिः विजयप्रणयिभिः, पक्षे जयासु-अमिमन्थलतासु, अनुरागिभिः-अनुरागास्पदः, जपानुरागिभिरिति पाठे जपेषु-स्वाध्यायविशेषेषु पक्षे जपाभिः-उड़पुष्पः, अनुरागिभिःरक्ततायुतैरिति व्याख्येयम , “जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते, विजये च युधिष्ठिरे” ॥ इति मेदिनी । पुनः श्रोत्रियैः वेदाध्येतृजनैः, अथवा “एका शाखां सकलां वा षड्भिरङ्गैरधीत्य च षदकर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित ॥१॥ जन्मना ब्राह्मणो ज्ञेयः संस्कार्द्विज उच्यते । वेदाभ्यासे भवेद्विप्रः श्रोत्रियस्त्रिभिरुच्यते ॥२॥" इति परिभाषितरतिधार्मिकजनैः, सच्छाया छायया-शोभया, पक्षे आतपाभावेन, सहिता, यद्वा सती-समीचीना, छाया-शोभा, पक्षे आतपाभावो यस्यां तादृशी, “छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः।" इति मेदिनी । पुनः अङ्गणैरिव अगन्ति परितोऽप्रतिहतं गच्छन्ति जना यस्मिन्निति अगनं चत्वरस्थली, तैरिव, विचित्राकारवेदिभिः विचित्राः-विविधाः, ये आकाराः-अवयवसन्निवेशाः, तद्वेदिभिः-तल्लम्भिभिः, पक्षे विचित्र आकार:- विन्यासः, रचनेत्यर्थः, यासां तादृश्यो वेदयःवेदिकाः, अङ्गणमध्योपकल्पितोपवेशनस्थानानीत्यर्थः, येषु तादृशः, नागरिकगणः निरुक्तनगरीनिवासिगणः, अलकृतगृहा शोभितप्रासादा। पुनः सामस्वररिव सामाख्यखर विशिष्टमन्त्रेरिव, सवनराजिभिःसाध्यसाधनभावसम्बन्धेन यज्ञशोभिभिः, सोमरसनिष्पीडनशोभिभिर्वा, पक्षे वनावलीसहितैः, “सक्नं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च” इति मेदिनी । क्रीडापर्वतकपरिसरैः क्रीडाया ये पर्वतकाः-हखाः पर्वताः, तत्परिसरैः-तत्प्रान्तभूमिभिः, आनन्दितद्विजा आनन्दिताः-सुखमनुभाविताः, द्विजाः-पक्षिणः, पक्षे ब्राह्मणक्षत्रियवैश्याश्च यया तादृशी, "द्विजः स्याद् ब्राह्मण-क्षत्र-वैश्य-दन्ताण्डजेषु ना" इति मेदिनी [२]। पुनः कीदृगसौ नगरी ! विश्वकर्मसहस्तैरिव बहुसहस्रसंख्यकैर्विश्वकर्मभिः-स्वलॊकशिल्पिभिरिव, न तु मर्त्यलोकशिल्पिभिः, नाप्येकेन विश्वकर्मणा, निर्मितप्रासादा-विरचितराजमन्दिरा । पुनः प्रजापतिसहरिव ब्रह्मसह