________________
. . ... टिप्पनक-परागविकृतिसंवलिता सकलकाव्यनाटकप्रबन्धैः परिचितनिखिलाख्यायिकाख्यानकव्याख्यानैः [ग], प्रमाणविद्भिरप्यप्रमाणविद्यैरधीतनीतिभिरप्यकुटिलैरभ्यस्तनाट्यशाखैरप्यदर्शितभ्रूनेत्रविकारैः कामसूत्रपारगैरप्यविदितवैशिकैः सर्वभाषाविचक्षणैरप्यशिक्षितलाटोक्तिभिः सात्त्विकैरपि राजसभावाप्तख्यातिभिरोजस्विभिरपि प्रसन्नैः [घ ], पूर्वाभिभाषिभिरुत्तरालापनिपुणैः सकलरसभावाभिहरविषादिभिर्यायदर्शनानुरागिभिररौद्रैः
इतिहासं-पुरावृत्तम् [ग] । ये प्रमाणयेदिनस्ते कथं प्रमाणविद्यारहिताः ? विरोधपरिहारे अप्रमाणविद्यैः बहुविधैः । कुटिलं-चाणक्यम् । वैशिकं-माया वेश्याकर्म च । लाटा:-लाटदेशजनाः, लाटः-चाटु च । ये सात्विकास्ते रजोभवभावमाप्तख्यातयः कथम् ? विरोधपरिहारे नृपसभाप्राप्तप्रसिद्धिः । ओजः-शब्दालङ्कारः, प्रसादोऽपि, एतौ च भिन्नाविति विरोधः, परिहारे तु ओजस्विभिः तेजस्विभिर्बलवद्भिर्वा, प्रसन्नैः प्रसत्तियुक्तैः [घ] । ये पूर्वाभिभाषिणस्ते उत्तराभिभाषणपराः कथमिति विरोधः, परिहारस्तु उत्तरवचननिपुणैः । ये विर्ष नादन्ति ते कथं सकलरसभावज्ञातार इति विरोधः, परिहारस्तु अविषादिभिः विषादरहितैः । ये नैयायिकदर्शनरागिणो भवन्ति ते रुद्रदेवताः कथमरौद्रा इति विरोधः, परिहारस्तु अरौद्रैः अभयानकैः । ये नर्मशीला:-चस्तरीप्रियाः, ते
काव्यनाटकप्रबन्धाः-श्रव्यदृश्यकाव्यग्रन्था यैस्तादृशैः । पुनः परिचितनिखिलाख्यायिकाख्यानकव्याख्यानैः परिचितंकृताभ्यासम् , आख्यायिकानाम्-अनुभूतार्थकानां वासवदत्तादिकथानाम् , आख्यानकानाम्-अमृतमन्थनसमुद्रबन्धनाधुपाख्यानानाम् , व्याख्यानं कीर्तनं यैस्तादृशैः [ग] । पुनः कीदृशः ? प्रमाण विद्भिरपि प्रमाणानि-प्रत्यक्षादीन्यैतिह्यान्तानि, विदन्ति-अशेषविशेषपुरस्कारेण जानन्ति ये तादृशैरपि, अप्रमाणविद्यैः प्रमाणज्ञानशून्यैरिति विरोधः, अप्रमाणा-अपरिमाणा, असंख्येयेत्यर्थः, विद्या येषां तादृशैरित्यर्थेन तत्परिहारः । पुनः अधीतनीतिभिरपि पठितनीतिकैरपि, अकुटिलैः चाणक्यभिन्नैरिति निरोधः, चाणक्यादिप्रणीतनीतिशास्त्रमधीतवद्भिरपि, अकुटिलैः तदध्ययनोचितकपटवृत्तिवर्जितरित्यर्थेन तत्परिहारः । पुनः अभ्यस्तनाट्यशास्त्रैरपि-अभ्यस्तम्-अनुशीलितम् , नाट्यशास्त्रम्-अक्षिभ्रवादिविक्षेपविद्या यैस्तादृशैरपि, अदर्शितनेत्रभ्रूविकारैः अदर्शितो भ्रूनेत्रयोर्विकारः-विविधः कारः क्रिया विक्षेपादिलक्षणा यैस्तादृशरिति विरोधः, अदर्शितस्तयोर्विकारः वैरूप्यं कोपजन्यकौटिल्यादिरूपं यैस्तादृशैरित्यर्थेन तत्परिहारः । पुनः कामसूत्रपारगैरपि कामसूत्रेषुसूत्रात्मना प्रणीतेषु कामशास्त्रेषु, पारगैरपि-पारङ्गतैरपि, परमाभिज्ञैरपीत्यर्थः, अविदितवैशिकैः अविदितम्-अपरिचितम् , वैशिकं-वेश्यासमूहो वेश्याकर्म वा यस्तादृशैः, स्वधर्मपत्नीमात्ररतरित्यर्थः, इति विरोधः, तदुद्धारे तु अपरिचितमायैरिति व्याख्येयम् । पुनः सर्वभाषाविचक्षणैरपि अखिलभाषाभिज्ञैरपि, अशिक्षितलाटोक्तिभिः अनभिज्ञातलाटदेशीयभाषैरिति विरोधः, तदुद्धारे तु लाट:-बाल्यं “लट बाल्ये” इति धातोर्घा निष्पादितत्वात् , तदवस्थायामुक्ति टोक्तिः, मधुरोक्तिरित्यर्थः, सा अशिक्षिता यस्तादृशैः स्वाभाविकमधुरोक्तिभिरिति यावदित्येवं व्याख्येयम् । पुनः सास्विकैरपि सत्त्वगुणप्रधानैरपि, राजसभावाप्तख्यातिभिः राजसभावेन-रजोगुणोचितचेष्टया, आप्ता-प्राप्ता, ख्यातिः-प्रसिद्धियस्तादृशैरिति विरोधः, राजसभयानृपपर्षदा, अवाप्ता-प्राप्ता, ख्यातिः-स्ववैदग्ध्यनिबन्धना विख्यातियस्तादृशैरित्यर्थेन तत्परिहारः । पुनः ओजस्विभिरपि प्रसन्नैः प्रसादयुक्तैः, ओजः प्रसादश्च शब्दालङ्कारः, एतौ मिथोविभिन्नाविति विरोधः, तत्परिहारे ओजस्विभिरपि तेजस्विभिरपि बलशालिभिरपि वा, प्रसन्नैः प्रशान्तः, न तूद्धतैः, विकारहेतुसत्त्वेऽपि तद्वर्जितैरित्यर्थः, [घ] । पुनः कीदृशैः ? पूर्वाभिभाषिभिः पूर्वपक्षवक्तृभिरपि, उत्तरालापनिपुणैः उत्तरपक्षप्रतिपादनकुशलैरिति विरोधः, पूर्वोत्तरपदस्य पूर्वोत्तरकालिकवृत्तान्तपरत्वेन तु तत्परिहारः । पुनः सकलरसभावाभिज्ञैः माधुर्याद्यखिलरसस्वभावाखादिभिरपि, सकलवस्तूनां रसखभावास्वादिभिरपि वा, अविषादिभिः विष न अदन्तीत्येवंशीलैः, विषसमवेतरसानाखादकैरिति विरोधः, विषीदन्ति तच्छीला इति विषादिनः, अथवा विषादोऽस्ति येषां ते विषादिनः,न विषादिनः-अविषादिनः, तैः, सततमेव हर्षान्वितरित्यर्थेन, सकला ये रसाः-शृङ्गारादयः, भावाः-रसरूपतानापन्नभगवद्विषयकरत्यादिरूपाश्च, तज्जरित्यर्थेन च विरोधपरिहारः । पुनः न्यायदर्शनानुरागिभिः गौतमप्रणीतन्यायदर्शनस्नेहिभिरपि, अरौद्रैः रुद्रदेवताकभिन्नै रिति विरोधः, नैयायिकाना रुद्रदैवतप्रसिद्धेः, न्यायदर्शनानुरागिभिः नीत्यवलोकनरागान्वितैः, अरौद्रः अभीषणैरित्यर्थेन तु विरोधपरिहारः । पुनः परानु