________________
तिलकमलरी।
आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शिता लीलोद्यानभवा नवा सुमनसः सप्तच्छदमारुहाम् । यसैन्यागमशङ्किनामसुहृदामाकृष्टगन्धा इव श्वासैः खेदनिरायतैर्विदधिरे सद्यः शिरोवेदनाम् ॥ ४५ ॥ श्रुत्वा यं सहसाऽऽगतं निजपुरात् त्रासेन निर्गच्छता शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः ।। शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडादौ च मुहुर्मुहुविवलितग्रीवैर्विमुक्ता दृशः ॥४६॥
[शार्दूलविक्रीडिते]
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ ४५ ॥ ४६ ॥
परागाभिधा विकृतिः--श्रीभोजविभीष्यमा रिपुभिरनुभूयमानां शारदी दुर्दशां दर्शयति--आयातेति । 'शरद आयाता इत्युदीर्य मुदितैः दारैः पुरो दर्शिताः, सप्तच्छदक्ष्मारहां लीलोद्यानभवाः नवाः सुमनसः, यत्सैन्यागमशङ्किनाम् असुहृदाम् , खेदनिरायतैः श्वासः, आकृष्टगन्धा इव सद्यः शिरोवेदनां विदधिरे' इत्यन्वयः । शरद् आश्विन कार्तिकमासद्वयात्मक ऋतुविशेषः, आयाता अवतीर्णा, सप्तच्छदकलिकोद्गमात् , इति इत्येवं वाक्यम् , उदीर्य उक्त्वा, मुदितः तत्कुसुमावलोकनहृष्टैः, दारैः रियुकलत्रैः, पुरः अने, अभिमुखवर्तिषु सप्तच्छदशाखाधिष्टितस्तबकेष्वित्यर्थः, दर्शिताः केलिकाननविहरणवेलायां दृष्टिपथ. मवतारिताः, लीलोद्यानभवाः प्रमदवनविकसिताः, नवाः नवीनाः, न तु प्राचीनाः, तत्र गन्धमान्यात् , सप्तच्छदक्ष्मारहां सप्त सप्त छदा:-पत्राणि प्रतिपत्रं येत्रित्यन्वर्थसंज्ञकानां श्मारहां-वृक्षाणाम् , सुमनसः कुसुमानि, यत्सैन्यागमशतिना यस्य-भोजराजस्य सैन्यागर्म-सैनिकागमं संशयानाम् , असुहृदां श्रीभोजराजरिपूणाम् , खेदनिरायतैः उक्तशकोदश्चदातकोपचितैः, श्वासैः नासिक्यसमीरणैः, आकृष्टगन्धा इव आकृष्टः-गृहीतः, गन्धः-आमोदो येभ्यस्तथाभूता इव, घ्रांततदुपनीतगन्धा इवेत्युत्प्रेक्षा, सद्यः तत्क्षणे, शिरोवेदनां शिरोव्यथाम् , विदधिरे जनयामासुः।
खललनाभिः सह केलिकाननविहरणपराणां श्रीभोजराजवैरिणामानन्दायोन्मीलत्सप्तपर्णकुसुमावलोकनया स्वसहचरीसूचितः शरदागमः, प्रत्युत संग्रामार्हसमयसमागमधिया श्रीभोजराजसैन्यागमनत्राससमुदीरितश्वासमारुतोपनीततत्कुसुमसौरभ जिघ्रता तेषां शिरोवेदनोदयादा विषमालङ्कारः।
"भार्या जायाऽथ पुम्भूम्नि दाराः" इति, "सप्तपर्णो विशालत्वक शारदो विषमच्छदः" इति, “पुमानाक्रीउ उद्यानं राज्ञः साधारणं वनम् , स्यादेतदेव प्रमदवनमन्तःपुरोचितम्” इति, "स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्" इति, “सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इति चामरः ॥ ४५ ॥
परागाभिधा विवृतिः--श्रीमद्भोजराजसमागमोदन्तश्रवणानन्तरमदसीयसपत्ननृपतिपत्नीनां निजशयना-ऽऽसन-स्नानादि स्थानेषु ममतामुपवर्णयति-श्रुत्वा यमिति । 'सहसाऽऽगतं यं श्रुत्वा त्रासेन निजपुराद् निर्गच्छता शत्रूणाम् , अवरोधनैः मुहुर्मुहुर्विवलितप्रीवैः [सद्भिः], जललवप्रस्यन्दतिम्यत्पुटाः, दृशः, शुभ्रे समनि, पल्लविनि उपवने, नवाम्भोरुहि वाप्यां, क्रीडादौ च विमुक्ताः' इत्यन्वयः । सहसा शीघ्रम् , पूर्वमसूचयित्वैवेत्यर्थः, आगतं योद्धमायातम् , यं भोजराजम् , श्रुत्वा कर्माकर्णिकयाऽऽकण्यैव, न तु युद्धा, त्रासेन तद्भयेन, निजपुरात् खनगरात् , स्वराजधानीत इत्यर्थः, निर्गच्छतां बहिनिःसरताम् , पलायमानानामित्यर्थः, शत्रूणां प्रकृतराजरिपूणाम् , अवरोधनैः अन्तःपुराङ्गनाजनैः स्वस्वामिभिः साकं पलायमानैः, मुहर्महः पौनःपुन्येन, विचलितग्रीवः तत्तत्स्थानावेक्षणाय व्यापृतकन्धरैः सद्भिः, जललवप्रस्यन्दतिम्यत्प लवानां-सकलसुखसम्पद्वन्धुरमन्तःपुरमुत्सृज्यारण्यवासादिशोकाचबिन्दूनाम प्रस्यन्देन-प्रस्त्रवणेन, तिम्यन्तौ-आर्दीभवन्तौ. पुटौपुटकाकाराक्षिगोलको यासां ताः, दृशः दृष्टयः, शुभ्र सुधालेपधौततया मणिमयतया वा भासुरे, समनि राजमन्दिरे, शयनाऽऽसनस्थानोपरीत्यर्थः, पल्लविनि अभिनवदलसन्दोहसान्द्रे विस्तीर्णे वा, उपवने अन्तःपुरकृत्रिमकेलिकानने, नीचैस्तन बिहारस्थानोपरीत्यर्थः, नवाम्भोरुहि नवोन्मीलितकमलशालिन्याम्, वाप्यां दीर्घिकायाम् , स्नानादिस्थानोपरीत्यर्थः, क्रीडादौं केलिशैले, उच्चैस्तनविहारस्थानोपरीत्यर्थः, विमुक्ताः अहो के पुनरीदृशानि सुखसाधनानि स्युरिति विचिन्त्य तम्ममतावशाद् भूयोभूयस्त त्तरस्थानदिदृक्षया विक्षिप्ताः।