________________
टिप्पनक परागविवृतिसंवलित्ता रक्षन्तु स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ, याति स्वाश्रयमर्जिताहसि सुरे निःश्वस्य संचारिताः । आजानुक्षितिमध्यममवपुषश्चक्राभिघातव्यथा, मूर्ध्वान्ते करुणाभराश्चितपुटा वीरस्य वो दृष्टयः ॥ ६॥
[ शार्दूलविक्रीडितम् ]
टिप्पनकम्-अधुनाऽऽसन्नतीर्थोपकारकत्वाद् भगवतो वर्धमानस्येष्टाभिमतदेवस्यैव पुनर्नमस्कारमाहरक्षन्त्वित्यादि । आर्जितांहसि गृहीतपापे ॥ ६ ॥
किरणप्रकरण धौतेव-चुम्बनाय विकसितास्योदश्यहन्तमरीचिनिचयेन क्षालितेव, मूर्तिः कर-चरणादिमती, शरीरमित्यर्थः, सर्वमन्यत् समानम् ।
अत्र वाच्या क्रियोत्प्रेक्षा श्लेषश्चेत्यनयोः संसृष्टिः ।
"श्रीपतिः पुरुषोत्तमः" इति, "स्त्रियां मूर्तिस्तनुस्तनूः" इति चामरः, “प्राण्य क्षत्रिये नाभिः प्रधाने नृपतावपि" इति शाश्वतः।
वसन्ततिलकावृत्तम् , सलक्षणं तु "भौ जो गौ वसन्ततिलका" [छन्दोऽनुशासनम् ] इति ॥५॥
परागाभिधा विवृतिः-अथ वर्तमानतीर्थप्रवर्तकत्वेन प्रत्यासनोपकारित्वान्महावीरदेवं दृष्टिद्वारोपश्लोकयति रक्षस्विति । 'चक्राभिधातव्यथामूर्छान्ते करुणाभराञ्चितपुटाः, स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधी खाश्रयं याति सुरे निःश्वस्य संचारिताः, आजानुक्षितिमध्यमनवपुषो वीरस्य दृष्टयः, वो रक्षन्तु' इत्यन्वयः । चक्राभिधातव्यथामून्तेि चक्रेण सङ्गमाख्यसुराधमविक्षिप्तकालचक्राख्यशस्त्रविशेषेण, योऽभिघातः-प्रहारः, तेन या व्यथा वेदना, तया मूच्छा-संज्ञाशून्यता, तस्या अन्ते-अवसाने, पुनः संज्ञोदये सतीत्यर्थः । करुणाभराश्चितपुटाः करुणायाः 'हन्त ! खगर्हिताचरणपरिणतिमयं कामप्यतिप्रतिकूलामुपभुञ्जीत' इति दुष्कर्मदुर्विपाकवितर्कितोदितदयायाः, भरेण-अतिरेकेण, अञ्चितानि-अश्रुनिष्यन्दाीभावरूपं वैशिष्ट्यमापादितानि, पुटानि-खाधिष्ठानपुटकानि यासां ताः, अत एव स्खलितोपसर्गगलितप्रौढप्रतिक्षाविधौ स्खलितैः-फलच्युतः, उपसगैः-उपद्रवैः, गलितः-भ्रष्टः, प्रौढप्रतिज्ञाविधिः-प्रौढा-प्रगल्भपूर्णा प्रतिज्ञा एव समाधिभञ्जनसंस्कार एवं विधिर्व्यापारो यस्य तस्मिन् , अत एव हताशयतया स्वाश्रयं देवलोकरूपं स्वस्थानम् , याति प्रतिगच्छति, सुरे विक्षिप्तचककदेवापसदे। निःश्वस्य तदनिष्टचिन्तोपचितशोकनिःश्वासं मुक्त्वा, संचारिताः व्यापारिताः, आजानुक्षितिमध्यमग्नवपुषः आजानुऊपर्यन्तम् , क्षितिमध्ये-भूगर्भे, मग्नं-चक्राभिघातभारेण अन्तर्निविष्टम् , वपुः-शरीरं यस्य तस्य, वीरस्य महावीरवामिनः, दृष्टयः चक्षुषि कारुण्यरसभूयस्त्वविवक्षया विविधविषयाकारतदीयवृत्तिबहुत्वविवक्षया वा बहुवचनम्, वः युष्मान् , रक्षन्तु, अपकारिणं प्रत्यपि सञ्जायमानकरुणरसवृष्टीनामदसीयदृष्टीनां सेवकान् प्रति सुतरामाईत्वमिति भावः ।
अत्र निबद्धकरुणात्मककार्योचितकारणविरुद्धचक्राभिघातसद्भावमुखेन तदुचितकारणाभावनिवन्धनाद विभावना, निबद्धचक्राभिघातात्मककारणोचितकायविरुद्धकरुणात्मककार्यसद्भावमुखेन तदुचितकार्याभावनिबन्धनाद् विशेषोक्तिश्चेत्यनयोः संशयसंकरालङ्कारः॥ इह योगशास्त्रवृत्ति:
"अनुग्राममनुपुरं विहरन् प्रभुरन्यदा। दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलम् ॥१॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःको पोलासं चैत्यमाविशत् ॥२॥ अन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दुरावनतविग्रहः ।। ३ ।। स्थिरीकृतान्तःकरणो निनिमेषविलोचनः । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया विभुः ॥४॥ [तथा स्थितं भगवन्तमधिज्ञानेन ज्ञात्वा नत्वा चाह सौधर्मेन्द्रः-7 भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः!! शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ॥१३॥ दधानः पञ्चसमितीगुप्तित्रयपवित्रितः । क्रोध-मान-माया लोभाऽनभिभूतो निराश्रयः ॥ १४ ॥ ब्रव्ये क्षेत्रेच काले च भावे चाप्रतिबद्धधीः । रुक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥१५॥
micial