________________
तिलकमञ्जरी।
ननु सस्वसामान्यस्य रागाद्यव्यभिचारितया तस्य वीतरागता कथं सङ्गतिमङ्गति, तत्त्वे वा कथं रक्षणकर्तृत्वमिति चेत् , न"दृष्टी रागाद्यसद्भावः क्वचिदर्थे यथात्मनः । तथा सर्वत्र कस्यापि तद्भावे नास्ति बाधकम् ॥ रागोऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषहारणहेतुगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन्” ॥ इत्याद्यागमप्रामाण्येन तद्व्यभिचारोपपत्तेः, तस्य वीतरागत्वेऽपि कल्पतरु-चिन्तामणिचन्नैसर्गिकरक्षणकर्तृत्वाक्षतेश्च । संसारवर्तिजन्तूनां दुःखावलिसंवलिता दशा नाटकीयरूपता च योगशास्त्रे हीत्थम् -
"संसारिणश्चतुर्भेदाः श्वभ्र-तिर्यग्-नरा-ऽमराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः॥ न केवलं नारकास्तिर्यश्चश्च दुःखिनः, किन्तु नरा-ऽमरा अपि, यदुक्तम्
"रुग्-जरा-मरणैस्ता नीचकर्मकर्थिताः । तां तां दुःखदशा दीनाः प्रपद्यन्ते दयास्पदम् ॥१॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भावासो यथा धोरनरके वाससन्निभः ॥ २॥ सूचिभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं भवेत् तद् गर्भवासिनः ॥ ३ ॥ योनियन्त्रान्निष्कामन् यद् दुःखं लभते भवी । गर्भवासभवाद' दुःखात् तदनन्तगुणं खलु"॥ ४ ॥ इति,
"शोका-ऽमर्ष-विषादेा-दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥१॥ इति च ।। . तथा नानायोनिषु संसरणरूपः संसारो नाट्यम् , तत्र नटवत् संसारी जन्तुश्चेष्टते, यथा हि नाटये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति । यदुक्तम्
"श्रोत्रियः श्वपचः खामी पत्तिब्रह्मा कृमिश्च सः । संसारनाटये नटवत् संसारी हन्त ! चेष्टते" ॥ १॥ इति,
हरिणाऽप्युक्तम्
"क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः, क्षणं वित्तहीनः क्षणमपि च सम्पूर्णविभवः ।
जराजीगैरङ्गैर्नट इव वलीमण्डिततनुर्नटः संसाराङ्के विशति यमधानीजवनिकाम्” ॥ १ ॥ इति । दुःखावलिसंवलिततया नाटकीयरूपतया च निरुक्तजन्तुरूपाणामीक्षणमेव भगवतः कारुण्यमुद्दीप्येव प्रकृतपद्यप्रतिपाद्यरक्षण. क्रियायामुपयुज्यते, न तु द्रव्यान्तररूपेक्षणमिति प्रकृते तदनुपादानम् , अन्यथा सर्वज्ञो भगवान् यथा व्याख्यातरूपाणीक्षते तथा लोकान्तर्गतस्य मुक्तात्मनो ज्ञानादीनि रूपाणि धर्मास्तिकायादेरचेतनद्रव्यस्य गमनानुग्रहादीनि रूपाणि, एवं द्रन्यान्तरशून्यस्थानन्तस्यालोकाकाशस्यागुरुलधुपर्यायप्रभृतीनि रूपाणि च प्रतिक्षणमीक्षत एवेति तदुपादानमपि कर्तव्यतां श्रयेदिति।
अत्र निरुक्तजगत्रयेक्षणस्य प्रकृतवाक्यार्थस्य रक्षणहेतुत्वेन विवक्षणात काव्यलिझालङ्कारः, 'न्त' 'क्ष' शब्दयोः सकृत् साम्याच्छेकानुप्रासश्चेति तयोः संसृष्टिः ।
"जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिघु”। इति मेदिनी, “अन्धावृत्तौ पशौ शब्दे नाटकादि-खभावयोः । रूपमाकार-सौन्दर्ये नाणक-श्लोकयोरपि” ॥ इति शाश्वतः ।।
इदं मविपुला नाम विषमवृत्तम् , “तुर्यानतभ्रम्सास्तद्विपुला" [ छन्दोऽनुशासनम् ] इति तल्लक्षणम् , अयमस्यार्थःओजे पादे चतुर्थादक्षरात् परं यगणं बाधित्वा न-त-भ-र-म-साश्चेत् तदा क्रमेण नविपुला तविपुला भविपुला रविपुला मविपुला सविपुला भवति, 'युजोः षड्भ्यो लः' इति तु स्थितमेव, 'ओजे' इत्यत्र जातिपक्षे द्वयोरपि पादयोर्ग्रहणम्, व्यतिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वेति । प्रस्तुते व्यक्तिपक्षाश्रयः॥१॥
२ विलक.
miram