SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-परागविवृतिसंवलिता श्रुत्वा चोपजातहर्षश्चिन्तितवान्—'अहो महात्मनाऽनेन मागधपुत्रेण यदृच्छयाऽपि गायतेदमपरवक्रमावेदितः करणीयमूढस्य मे कार्यसिद्धथुपायः, तदिदमेवाङ्गीकरोमि सारस्वतमस्योपदेशवचनम् , आराधयामि गत्वाऽरण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम्' इति, उत्थाय च यथाक्रियमाणं पौर्वाह्निकानुष्ठानमनुष्ठायाधिरुवान्तःपुरप्रासादमिममस्याश्चित्रशालिकायाः प्राङ्गणवितर्दिकोपविष्टां समाश्लिष्य देवीमिदं सदुःखमवदम्'देवि! त्वदपत्यसन्ततिनिमित्तमितो मया गत्वाऽरण्यमा वरप्रदानाद् देवताराधनं कर्तुमध्यवसितम् , यावश्च सिद्धप्रयोजनोऽहमागच्छामि तावत् त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्' इति, निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकमकस्मादेव मूञ्छितेयम् , उच्छन्नसंज्ञा च तिर्यक् पतन्ती सत्वरेणोपसृत्य धारिता परिजनेन, स्थित्वा च क्षणं समाश्वस्ता, निःश्वस्य चातिदीर्घमिदमपारदुःखभारभज्यमानगलसरण्या गदितमनया स्वरेण गद्गदेन स्वैरम्-'आर्यपुत्र! सन्तानकार्यसिद्धये तव प्रस्थितस्य नाहं प्रतिपन्थिनी, किश्च पुनरिदं विज्ञापयामि उदयति आविर्भवति, पक्षे सन्तत्या वर्धते, वर्धनोन्मुखमास्त इत्यर्थः, अतस्तत्प्रत्यूहापनोदनाय, निरपायं निरुपद्रवं यथा स्यात्तथा, देवताः खेष्टदेवान् , उपास्व आराधय । श्रुत्वा च तथा निशम्य च, उपजातहर्षः उत्पन्नानन्दः, चिन्तितवान् आलोचितवान् , अहमिति शेषः । किमित्याह-अहो इत्याश्चर्ये, अनेन निकटस्थितेन, महात्मना अतीतानागतादिज्ञात्रा, मागधपुत्रेण बन्दिसुतेन, इदं श्रूयमाणम् , अपरवकं तत्संज्ञकच्छन्दोविशेषम् , यहच्छयाऽपि खेच्छयाऽपि, गायता, करणीयमूढस्य कर्तव्यमूढस्य, मे मम, कार्यसिद्धधुपायः कार्यस्य-पुत्रोत्पत्तिरूपस्य, सिद्धेः, उपाय:देवतोपासनरूपः, आवेदितः ज्ञापितः, "स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः" इत्यमरः । तत् तस्माद्धेतोः, इदमेव श्रूयमाणमेव, अस्य मागधपुत्रस्य, तदुच्चारितमित्यर्थः, सारस्वतं सरखत्या उपदेशवचनम् , देवतोपासनोपदेशवाक्यम् , अङ्गीकरोमि तदनुसारमनुतिष्ठामीत्यर्थः । अरण्य वनम् , गत्वा, उपनतशरण्याम् उपनताना-खाश्रितानाम् , शरण्यांशरणे रक्षणे साधुः-शरण्यः, तादृशीम् , प्रख्यातां प्रसिद्धाम् , देवताम् आराधयामीति । उत्थाय च अनेन संकल्पेन शयनादपसृत्य च, यथाक्रियमाणं क्रियमाणमनतिक्रम्य, नित्यकृत्यरूपमिति यावत् , पौर्वाहिकानुष्ठानम् अहः पूर्व पूर्वाहः, दिवसप्रथमभागः, तत्र भवं पौर्वाह्निकम् , तादृशम् , अनुष्ठान कृत्यम् , अनुष्ठाय कृत्वा, इमं प्रत्यक्षभूतम् , अन्तःपुरप्रासादं राज्ञीनिकेतनम् , अधिरुह्य आरुह्य, अस्याः प्रत्यक्षभूतायाः, चित्रशालिकायाः चित्रवर्णशालायाः प्राङ्गणवितर्दिकोपविष्टां प्राङ्गणे या वितर्दिका-वेदिका, तस्यामुपविष्टाम् , “स्याद् वितर्दिस्तु वेदिका” इत्यमरः । देवीं राज्ञीम् , मदिरावतीमित्यर्थः, समाश्लिष्य सम्यगालिङ्गय, सदुःखं दुःखपूर्वकम् , इदं खसंकल्पादिवाक्यम् , अवदम् उक्तवान् । किमित्याह-देवि! राज्ञि!, त्वदपत्यसन्ततिनिमित्तं तवापत्यसन्ततिः-अपत्यसमूह एव, निमित्तं-फलविधया कारणं यस्मिस्तादृशं यथा स्यात्तथा, यद्वा स्वदपत्यसन्ततेः, निमित्त-प्रयोजक यथा स्यात्तथा, इतः अस्मात् स्थानात्, अरण्यं तपोवनम् , गत्वा, आ वरप्रदानात् पुत्रात्मकवरदानपर्यन्तम् , मया, देवताराधनं देवतोपासनम् , कर्तुम् अनुष्ठातुम् , अध्यवसितं निश्चितम् , यावश्च यावत्कालम् , सिद्धप्रयोजनः प्राप्तवरः, अहम् , आगच्छामि, तावत् तावत्कालम् , त्वया भवत्या, गुरुजनं स्वश्वश्रूप्रभृतिम् , शुश्रूषमाणया निषेवमाणया, इह अत्रैव, स्थातव्यं निवसनीयम् । इदम् उच्यमानम् , अश्रुतपूर्व पूर्व कदाऽप्यश्रुतम् , अतिदुःसहं विश्लेषावेदकत्वेन दुःश्रवम् , अस्माकम् वचनं वनगमनवाक्यम् , निशम्य च श्रुत्वा च, अकस्मादेव हेतुविशेषव्यतिरेकेणैव, इयं मदिरावती, मूञ्छिता मूर्छामवाप्तवती, उच्छन्नसंज्ञा च विध्वस्तचैतन्या च सती, तिर्यक् कुटिलम् , पतन्ती अधो लुठन्ती, सत्वरेण त्वराशालिना, परिजनेन खजनेन, उपसत्य समीपमेत्य, धारिता अवलम्बिता, च पुनः, क्षणं किञ्चित् कालम् , स्थित्या स्थैर्यमाश्रित्य, समाश्वस्ता प्रत्यावृत्तचैतन्या, समजनि, अतिदीघ निःश्वस्य च चैतन्यप्रत्यावृत्त्या महान्तं निःश्वासं गृहीत्वा च, अपारदुःखभारभज्य. मानगलसरपया अपारस्य-अनन्तदुःखस्य, भारेण, भज्यमाना- विदार्यमाणा, गलसरणि:-कण्ठश्वनिमार्गों यस्यास्तादृश्या, भिद्यमानकण्ठयेत्यर्थः, अनया मदिरावस्या, गद्देन विश्लेषवेदनयाऽव्यक्तेल, खरेण, स्वैरं स्वतन्त्रं यथा स्यात्तथा, इदम् अनुपदवक्ष्यमाणवाक्यम् , गदितं प्रतिपादितम् । आर्यपुत्र! राजकुमार!, सन्तानकार्यसिद्धये सन्तानस्य-पुत्रात्मकस्य,
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy