________________
९१
तिलकमञ्जरी। तरचाम्बरतलात् [अं] । उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयमवनीपतिः प्रगुणीकृतार्घपात्रो विधाय विधिसम्पादितया सपर्यया सानन्दमानन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुदूरदर्शितादरया मदिरावत्या निजोत्तरीयपल्लवेन प्रमृष्टरजसि न्यवेशयत् [अ] ।
___ कृतगृहागतमहर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधिदैवतमिवोपास्य सुचिरमास्यनिहितनिश्चलचक्षुरवनितलोपविष्टः सप्रश्नयमुवाच-'भगवन् ! एष तावदभ्रङ्कषाप्रशिखरस्तुषारगिरिरिव गङ्गास्रोतसा गगनमण्डलावतीर्य मुनिगणमाननीयेन गुरुतां परामारोपितः प्रासादस्त्वया, तदनु सर्वतः कृतावलोकनेन स्वच्छशिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातर्दूरीकृतो दुरितराशिरस्य समस्तस्यापि नगरीनिवासिनो मत्परिग्रहस्य, प्रणामसमये च मूर्धानमधिरोपितेन प्रकृतिपूतेन निजपादपांशुना सम्पादितमखिलतीर्थस्नानफलम् ; एवं च सामान्येन सर्वतः समुपजातमप्यसंजाततृप्तिरधिकतरकल्याणसम्पल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो
सप्रश्वयं सविनयम् [क] |
उपरितनकुट्टिमन्यस्तचरणम् उपरितने-तत्प्रासादोपरिस्थे, कुट्टिमे-मणिबद्धभूमो, “कुट्टिमं तस्य बद्धभूः" इति कोशः, न्यस्तौ-धृतो, पादौ-चरणौ येन तादृशम् , तं मुनिम्, सविनयं विनयसहितं यथा स्यात्तथा, उपसृत्य निकटं गत्वा, प्रगुणीकृतार्धपात्रः प्रगुणीकृतम्-ऋजूकृतम्, पूजोपकरणपूर्णतया ऋजुरूपेण धृतमिति यावत् , अर्धपात्रं-दूर्वाक्षतादिपात्रं येन तादृशः सन् , “ऋजो त्वजिह्मप्रमुणौ” इत्यमरः, विधिसम्पादितया विधिविहितया, सपर्यया पूजया, “सपर्या र्हणाः समाः” इत्यमरः, सानन्दम् आनन्दान्वितम् , विधाय, आनन्दपर्यश्रुलोचनः आनन्देन हेतुना, पर्यश्रुणी-अश्रुपूर्णे, लोचने यस्य तादृशः सन् , प्रणम्य नमस्कृत्य, स्वयं खेनैव, समुपनीते समानीते, पुनः सुदूरदर्शितादरया सुदूरात्अतिदूरादेव, दर्शित आदरः सम्मानो यया तादृश्या, मदिरावत्या, निजोत्तरीयपल्लवेन निज-स्वकीयम् , यदुत्तरीयम्-ऊर्ध्ववस्त्रम्, तदेव कोमलत्वात् पल्लवः, तेन प्रमृष्टरजसि प्रमृष्टानि रजांसि धूलिकणा यस्मिंस्तादृशे, हेमविष्टरे सुवर्णासने, न्यवेशयत् उपावेशयत् [अ]
च पुनः, कृतगृहागतमहर्षिसमचितसमस्तोपचारः कृतः-सम्पादितः, गृहागतस्य महर्षेः. समुचितः-योग्यः. समस्तः, उपचारः-पादक्षालनादिरूपसत्कारो येन तादृशः सन., स राजा तं गुरुमिव गुरुवत , अधिदैवतमिव परमेश्वरवच्च, उपास्य सेवित्वा, सुचिरम् अतिदीर्घकालम् , आस्यनिहितनिश्चलचक्षुः आस्ये-मुखोपरि, निहिते-धृते, निश्चलचक्षुषी-निःस्पन्दनयने येन तादृशः सन् , अवनितलोपविष्टः पृथ्वीपृष्ठमासितः, सप्रश्रयं प्रीतिपुरस्सरम् , उवाच वक्तुमारेभे, “प्रणय प्रश्रयो समौ” इत्यमरः । किमुवाचेत्याह--भगवन् ! ऐश्वर्यशालिन् !, मुनिगणमाननीयेन मुनिवृन्दवन्दनीयेन त्वया, गगनमण्डलादवतीर्य आकाशमण्डलादधस्तादागत्य, गङ्गास्त्रोतसा गङ्गाप्रवाहेण, तुषारगिरिरिव हिमालय इव, तावत् प्रथमम् , तावदिति वाक्यालङ्कारे वा, अभ्रङ्कषानशिखरः अभ्रषाणि मेघसङ्घर्षाणि, अप्रशिखराणि-शिखराप्रस्थानानि, यद्वा अभ्रकषाप्राणि शिखराणि यस्य तादृशः, एष प्रासादः, परां निरतिशयां गुरुतां महत्ताम् , आरोपितः प्रापितः । तदनु तदनन्तरम् , सर्वतः कृतावलोकनेन समन्ततः कृतदर्शनेन, त्वयेति शेषः स्वच्छशिशिरैः विमलशीतलैः, शान्त्युदकशीकरिव शान्तिफलकजलकणैरिव, दृष्टिपातैः निजनयन निक्षेपैः, निजनयनाभ्यामवलोकनैरिति यावत् , समग्रस्यापि सर्वस्यापि, नगरीनिवासिनः एतन्नगरीवास्तव्यस्य, अस्य सनिकृष्टस्य, मत्परिग्रहस्य मत्परिजनस्य, दुरितराशिः इष्टसिद्धिप्रतिबन्धकप्रत्यवायपुजः, दूरीकृतः दूरमपसारितः । च पुनः, प्रणामसमये नमस्कारावसरे, मूर्धानमधिरोपितेन मस्तकधृतेन, प्रकृतिपूतेन खभावतो विशुद्धेन, निजपादपांशुना खचरणरेणुना, अखिलतीर्थस्नानफलं सर्वतीर्थाधिकरणकावगाहनफलम् , सम्पादित-निष्पादितम् , त्वयेति शेषः । एवं च अनेन प्रकारेण तु, सर्वतः सर्वथा, सामान्येन साधारणतया, समुपजातमपि सम्पनमपि, आत्मनः खस्य, अनुग्रहम् अभिमुखावतरणकृपाम्, असाततृप्तिः अनुत्पनसन्तोषः, अहमिति शेषः, अधिकतरकल्याणसम्प