SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७२ महोपाध्यायश्रीमेघविजयगणिविरचिते मप्तसन्धानमहाकाम्बे दभिधानं कवीनां-काव्यनिर्मातॄणां कलापरूपं कलाया:सामर्थ्यस्य कल्पनाशक्तरित्यर्थः अपरूपम् अपकृष्टस्वरूपम् विपरीतल्पंवाऽभिमतमितिशेषः । अनुपमानां प्रकृतिरमणीयानां रमणीरत्नानामुपमानप. रिकल्पनमाहार्यसौन्दर्यसाधनोपसन्निधापनं च कविकल्पनाशक्तेदौबल्यं द्योतयतीतिभावः । कलापो भूषणे बर्हे तूणीरे संहतावपि इति मेदिनी । कला स्यान्मूलविवृधौ शिल्पादावंशमात्रकेषोडशांशे च च. न्द्रस्य कलनाकालमानयोरितिमेदिनी । अपः स्यादपकृष्टार्थे वर्जनार्थवियोगयोः । विपर्ययेच विकृतौचौर्ये निर्देश-हर्षयोः इतिमेदिनी । ___ अथ च कवीनां काव्यकर्तृणां तत्तस्मात् इदं एतद्वर्णनीयस्वरूपं खी रूपं वस्तु कलापरूपम् समूहरूपं. सर्ववर्णनीयवस्तु समष्टिरूपम् यद्वा कलारूपम् भूषणस्वरूपम् प्रसन्नताजनकम् एकत्रैव सर्वव्यावर्गनीयवस्तुमिलनात् किंवाकवीनां मयूराणां कलापरूपम् बर्हस्वरूपम् अनेकरूपत्वादित्यर्थः ॥ ३७॥ नृपेन्द्रभावे जयवाहिनीयं, तद्वैष्णवे साकमलाऽवतीर्णा । तद्राजयोगे खलुरोहिणीव, व्यावर्णनीया बहुलब्धवर्णैः ॥ ६८ ॥ (अन्वयः) सा इयं नृपेन्द्रभावे जयवाहिनी. तद्वैष्णवे कमलाऽवतीर्णा । तद्भाजयोगे रोहिणीव बहुलब्धवणेः ब्यावर्णनीया खलु ।। ६८ ॥ __ व्याख्या-सा इयं-पूर्वोक्ता राज्ञी नृपेन्द्रभावे-नृपस्य-राज्ञः खभर्तुः इन्द्रभावेन्इन्द्रत्वे देवराजत्वे इत्यर्थः अष्टानांलोकपालानां वपु धीरयतेनृपः इत्युक्ते रिन्द्रकलयाऽवतीर्णतयाऽभिमतत्वे जयवाहिनी जयं-जयन्तं-पाकशासनि तदाख्यशक्रपुत्रमित्यर्थः वहति-धारयति
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy