SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजया मृतसूरिप्रणीता सरणी टीका. सौभाग्यमस्याः प्रवदेत् समस्याख्यानात् सुधावा सकलार्थसिद्धिः । सुधाऽधरस्था करपद्मगाऽन्या ६९ तन्तुल्यता वास्तु न जीवलोके ॥ ६४ ॥ समस्य आख्यानात् ( सादृश्यरूपेण ) सुधा सकलार्थ सिद्धिर्वा अस्याः सोभाग्यं प्रवदेत् तु सुधा ( अस्याः ) अधरस्था अन्या करपद्मगा: ( अतएव ) जीवलोके तत्तुल्यता न अस्तु ॥ ६४ ॥ समस्य - संक्षिप्य आख्यानात् = कथनात् सादृश्य रूपेणेतिशेषः सुधा = अमृतं. सकलार्थ सिद्धि: - सकलानां सम्पूर्णानाम् अर्थानां= धनानां प्रयोजनानां वा वस्तूनां वा सिद्धिः निष्पत्तिर्वृद्धिर्वा वा शब्दः समुच्चयार्थः अस्या: = पूर्वोक्तराज्ञ्याः सौभाग्यं = भाग्यशालिनां पतियाल्लभ्यं वा कर्म्म प्रवदेत् = वक्तुं समर्था स्यात् । द्वितीयो 'वा' तु शब्दार्थकः तथा च वा तु किन्तु सुधा प्रक्रमादस्याः अधरस्था= ओष्ठवर्तिनी अन्या= अपरा द्वितीया सकलार्थसिद्धिरित्यर्थः करपझगा - हस्तपद्मस्था हस्तस्थितकमल रेखामा हिप्रभवेत्यर्थः पद्मरेखायुक्तहस्ते सर्वार्थसिद्धिरिति सामुद्रिकशास्त्रे प्रसिद्धम् । अतएव जीवलोके = मर्त्यलोके तत्तुल्यता = तत्सादृश्यं न अस्तु = नाऽस्तीत्यर्थः । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं हि सादृश्यं तच्चाऽभिन्न वस्तुनि न सम्भवतीति कथं स्वस्था सुधा स्वंसादृश्येन वक्तुं प्रभवेदितिभावः । अत्रातिशयोक्तिरलकृतिः ॥ ६४ ॥ रूपेण कान्त्या चरणेनलक्ष्म्या, प्राप्ताशलाकां त्रिषु विष्टपेषु । ततः प्रसिद्धा त्रिशलाकनान्नाकाराविकारा द्रमणी मणीव ॥ ६५ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy