SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ५. महोपाध्याय श्रीमेघविजयगाणविरचितेसप्तसन्धानमहाकाव्ये चैत्येषु नित्याऽभयदातुरर्चा, प्रसङ्गतोऽनङ्गतयाऽभिधानात् । श्मशानवेश्मान मवेत्यरुद्रं, स्मरोऽभियातत्पुरमध्युवास ॥ ४५ ॥ (अन्वयः) स्मर: चैत्थेषु नित्याभयदातुः अर्चाप्रसङ्गतः अनङ्गतयाऽभिधा. नात रुद्रं श्मशानवेश्मान मवेत्य चाभियातत्पुरमध्युवास ॥ ४५ ॥ (व्याख्या) स्मरः कन्दर्पः चैत्ये-जिनायतनेषु नित्याभयदातुः नित्यं शाश्वतम् अभयं वीशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधमनिवन्धनभूमिकाभूत गुणप्रकर्षादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वात् ददातीति नित्याभयदाता तस्य तथोक्तस्य श्रीजिनेन्द्रभगवतः अर्चाप्रसङ्गतः पूजाप्रस्ताचे अनङ्गतया शरीररहिततया कामस्य अभिधानात्-आख्यानात् पूजाशुपक्रमे ऽनङ्गजिदि' -त्यादिजिनेन्द्रनामस्मरणप्रसङ्गेन कामस्याऽङ्गरहितत्वेनाऽनुकम्पनीयतयाऽभयप्रदत्वेनाम्नातस्य श्रीजिनेशस्याभयदानपात्रतयानुग्रहणात्. रुद्र-स्वप्रा. क्तनशत्रुभूतशिवमपि श्मशानवेश्मानं-श्मशानं शवदाहस्थानमेव वे. श्म वासस्थानं यस्य स तं तथोक्तं श्मशानवासिनम् अवेत्य=विदित्वा. चाऽभिया भयरहिततया तत्पुरं=व्यावर्ण्यमानस्वरूपं नगरम् अध्युवास-अध्युपितवान् ॥ ४५ ॥ सूनोरनूनोदयमत्र धैर्याद, रमाऽवधार्येव दधौ स्थिरत्वम् । बालश्चलत्वं विजहो महौजा स्तकिमया धार्यमितिहियेव ॥ ४६ ॥ (अन्ययः) रमा सूनोः अत्र अनूनोदयम् अवधायेंव(स्थिरत्वंदधौ)महोजा:
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy