SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४६ महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये क्रमस्य पुरम्-आश्रयः॥ श्रीऋषभदेवरामपक्षयो 'बुद्धध्यापि अयोध्या' इति विशेव्यम्, अपिना नाम्नाऽपि अयोध्या एवेत्यवधार्यम् । श्रीहास्तिनस्थानमित्यस्य हस्तिनां समूहो हास्तिनं, श्रिया हास्तिनस्य च स्थानम् इत्यर्थों विदेलिमः । श्रीपार्श्वनाथपक्षे-'शिवपू:' इति विशेष्यं सा च वाराणसी काशीपुरीत्यर्थः अत्रपक्षे वसुश्रिया-धनशोभया जैः वीक्ष्यते इत्यर्थः।। श्रीमहावीरपक्षे 'श्रीमण्डनब्राह्मणकुण्डसंज्ञया-श्रियाः-लक्ष्म्या मण्डनं-भूषणभूतं यद् ब्राह्मणकुण्डं-तदाख्यं स्थानं तद्रूपसंज्ञया-नाम्ना सुप्रभाता-सुप्रसिद्धा ॥ श्रीकृष्णपक्षे 'मधुरा'-तदपरनाम्नी मथुरापुरीत्यर्थः रसाश्रयैः उपलक्षिता इति सम्बन्धः ।। श्रीनेमिनाथपक्षे 'शौर्य पुरम्' इति विशेष्यं शेषविशेषण सम्ब. न्धः पूर्ववद्वोद्धव्यः । अर्थश्लेषः । __रसो गन्धरसे वादे तिक्तादौ विष-रागयोः । शृङ्गारादौ द्रवे वीर्य देहधात्व-म्बु-पारदे । रसा तु सल्लकी-पाठा-जिह्वा-धरणि-कङ्गुषु इति विश्वः ॥ ४० ॥ यद्विस्त्रसाभीरु रनगराज, स्तन्मन्त्रविद्भीरुरतः प्रपन्नः । स्थानं परायोध्य सहाश्वसेनं, सहास्तिनं सन्मधुरं स शौर्यम् ॥ ४१ ॥ अन्वयः--यद् विस्त्रसाभीरुः अनङ्गराजः तन्मन्त्रविद्भीरुः (अस्ति) अतः तत् स्थान प्रपन्नः पराऽयोध्यं सहाऽश्वसेनं सहास्तिनं सन्मधुरं सशौर्यम् ॥४॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy