SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४२ महोपाध्यायश्रीमेघविजयगणिविरचितेसप्तसन्धानमहाकाव्ये नित्यं समुद्रातिशयाशयेन, पिताम्बराः स्वीययशःप्रकाशैः । निवासिनोऽस्मिन् कमलानुषङ्गः, ___स्वयंभुवः श्रीपुरुषोत्तमास्ते ॥ ३७ ॥ अन्वयः--अस्मिन् निवासिनः ते श्रीपुरुषोत्तमाः समुद्रातिशयाशयेन नित्यम् [उपलक्षिता:] स्वीययशः प्रकाशैः पीताम्बरा: कमलाऽनुषझैः (उपलक्षिताः) स्वयंम्भुवः (सन्ति) ॥ ३७ ॥ व्याख्या-अस्मिन् देशे निवासिनः वास्तव्याः ते प्रसिद्धाः जनाः श्रीपुरुषोत्तमा:=पुरुषेषु उत्तमाः श्रेष्ठाः । समुद्रातिशयाशयेन= समुद्रात्-रत्नाकरात् अतिशय:-अतिमात्रः तदतिक्रमणशीलो वा आशयः -विभवः रत्नादिसम्पत् , चित्तं वा गम्भीरहृदयत्वात्, अभिप्रायो वा गम्भीराशयत्वात् तेन तथोक्तेन उपलक्षिताः उपलक्षणे तृतीया, स्त्रीययशः प्रकाशैः स्त्रीयानाम् आत्मीयानां यशसां-कीर्तीनां प्रकाशैः= विस्तारैः पीताम्बरा पीतं व्याप्तम् अम्बरम्=आकाशो यैस्ते तथोताः यशोभिः पिहिताऽऽकाशा इत्यर्थः । कमलानुषङ्गैः कमलायाः= सम्पल्लक्ष्म्या वरस्त्रिया वा कमलाना-शालिधान्यानां लेखनीनां वा अनुषङ्गैः सम्बन्धैः उपलक्षिताः स्वयंभुवः स्वयम्=आत्मना भवन्ति =अन्तर्भावितण्यर्थतया भावयन्ति उत्पादयन्ति स्वोपयोज्यवस्तुजातानि कलाकौशलेन इति ते तथोक्ताः सन्तीति शेषः । अत्र पद्ये 'पीताम्बरा' स्वयम्भुवः, श्रीपुरुषोत्तमाः" इत्येतैर्योगार्थेन प्रस्तुतदेशनिवासिजनविशेषणीभूतैरपि रूड्या ब्रह्म-विष्णु-महेशानवाचकैस्त्रिभिः शब्दैः 'एतद्देशवास्तव्यालोकाः' 'ब्रह्म विष्णुमहेशरूपा एवेति श्लेषमहिम्ना ध्वन्यते, तथाहि 'पीताम्बराः, श्रीपुरुषोत्तमाः' इत्येतत्पदद्वयेन स्मर्थमाणो विष्णुः " नित्यं निरन्तरं समुद्रातिशयाशयेन समुद्रेऽति.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy