________________
३४ महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
देशः सदेशस्थितिभृन्नरेशः,
- .. सुरार्चनाहूत महीसुरेशः । तपस्विवर्गेण यशस्विभिर्वा,
कृतप्रवेशः स्थिरसन्निवेशः ॥ २९ ॥ अन्वय-सदेशस्थितिमृन्नरेशः सुरार्चनाहूत महीसुरेशः तपस्थिवर्गण यशस्विभिर्वा कृतप्रवेश: स्थिरसन्निवेशः दश ( आसीत् ) __ व्याख्या-सम्प्रति दशभिः पद्यैः पूर्वोक्तान देशान्वर्णयतिदेश इति । देश: जनपदः वक्ष्यमाणस्वरूप आसीदिति शेषः। सदेशस्थितिभृन्नरेश सदेशे-समीपे स्थिति-मर्यादामवस्थिति वा बिभ्र. तीति सदेशस्थितिभृतो नरेशा-राजानो यस्मिन् सः यद्वा सदासर्वसिन्काले ईशस्थितिम् ऐश्वर्य विभ्रतिधारयंतीति ते ईशस्थितिभृतो नरेशा यस्मिन स तथोक्तः। मुरार्चनाहूतमहीसुरेशः-मुराणां-देवानाम अर्चनायां पूजायाम् अर्चनार्थ वा आहृताः-आकारिता आमन्त्रिता इत्यर्थः महीसुरेशाः ब्राह्मणश्रेष्ठाः ऋत्विगादय इत्यर्थः यस्मिन स तथोक्तः। तपस्विवर्गण-तपोधनः यशस्विभिः-यशोधनैर्वा कृतः= संपादितः प्रवेशो यत्रासौ कृतप्रवेशः । स्थिरसन्निवेश:-स्थिरः-शाश्वतः सनिवेशः-सम्यस्थितिर्वास इत्यर्थः यत्र सः यद्वा स्थिरम् निश्चितः संनिवेशः-पुरादौ गृहादिरचनापरिच्छिन्नदेशोयस्मिन् स तथोक्तः।स देशाऽभ्यास-सविध-समर्याद-सवेशवत् इत्यमरः । सन्निवेशो निकपण इति चामरः ॥ २९ ॥ सदागमानां फलितैर्द्विधापि,
स संनिधान बहुधा निधानैः ।