________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
३१
यत् = यस्मात्कारणात् मेरुः = सुवर्णपर्वतः अस्य भरत क्षेत्रस्य दाक्षिण्यम् = औदार्य सरलतां वा सर्वानुकूलतां वा यज्ञादिविधिदानं वा आमृश्य = विमृश्य विचार्येत्यर्थः । महाविदेहं भरतक्षेत्राधिकविस्तृतमपरक्षेत्रविशेषं पुरतः = पूर्वस्यां दिशि पश्चात् पश्चिमायां च दिशि यद्वा पुरतः = अग्रतः पूर्वदिशीत्यर्थः पश्चात् अवरस्मिन् भागे पृष्ठभागे पश्चिमदिशीत्यर्थः निवेश्य अस्य = भरतक्षेत्रस्य दक्षिणभागमेव स्वदक्षिणदेशमेव आदिशत् = उपाsकल्पयत् संनिवेशार्थमिति शेषः । मेरुः कीदृशः स काञ्चनार्चिः सुवर्णमयरोचिष्कःः पु० की ० विबुधैः = देवैः धृतार्चः कृतपूजः ॥ दक्षिणे सरलोदारौ इत्यमरः । दक्षिणो दक्षिणोद्भूतसरलच्छन्दवर्तिषु । आरामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम् इति मेदिनी ॥ २६ ॥
स्पर्धा दधच्चैरवतं यदस्य,
विन्यस्य वामं कृतरत्नकामम् ।
स शुरतं प्राप्तघृणित्वभव्यं,
मेरुर्दधौ तद्भरतं त्वसव्यम् ॥ २७ ॥
अन्वयः - स मेरुः यत् अस्य स्पर्धा दधत् कृतरक्तकामम् ऐरवतं वामं बि. न्यस्य स शूरतं प्राप्तघृणित्वभव्यं तद्भरतं तु सव्यं दधौ ॥ २७ ॥ व्याख्या- सः=प्रसिद्धः मेरु:- सुवर्णशैलः यत् - यस्मात् भरतक्षेत्रे दाक्षिण्याद्यनेकगुणानुरोधाद्धेतोः अस्य = भरत क्षेत्रस्य स्पर्द्धा-दक्षिण भागावस्थापनादिसन्मानजनितामीर्ष्या परोत्कर्षासहिष्णुत्वमिति यावत् दधत् = धारयत् तथा कृतरक्तकामं कृतः = विहितो रक्ते- शोणिते रक्तस्य वा कामः = अभिलाषो येन तत् (परिहारपक्षे तु कृतो रक्ते= ऐरवत क्षेत्रगत ' रक्ता रक्तवतीत्येतन्नदीद्वय सम्बन्धिलोहितवर्णजळे कामो येन तत्, रक्ता रक्तवती च नदीद्वय भैरवत क्षेत्रे वर्तते वदीयं जलं