________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
जनिकेत्यर्थः । पु० की. ? धारिणी-दुर्गतीपतज्जन्तून् धारयतीत्येवंशीला यद्वा पापानरके संभावितपातान् प्राणिनो निजभुवनपावन जीवनाऽवगाहनविगतकल्मषतया धारयति अवलम्बते तच्छीला । अत्रपद्ये 'क्षेत्रक्षमेश' पदे तन्त्रं विवक्षितम् तेनासौ अर्थत्रयवाची ॥१८॥ उपमाऽतिशयोक्तिश्चालंकारौ ॥ सिन्धुद्धितीयाऽब्जमुखानुसारिणी,
जडप्रसङ्गावृतचारुचारुणी । इतस्ततो नौ निभृतार्थतारिणी,
वसुप्रकाशैः सुरविप्रतारिणी ॥ १८ ॥ अन्यय-क्षेत्रक्षमेशस्य उदृता द्वितीया स्त्रीव सिन्धुः प्रवहति] अब्जमुखानुलारिणी इतस्ततो नौनिभृतार्थतारिणी. बसुप्रकाशैः सुरविप्रतारिणी॥१८॥
व्याख्या -"क्षेत्रक्षमेशस्य' इति. 'प्रागुदृढ़ बनितेवे'-ति च पूर्वतोऽन्वेति । तथा च क्षेत्रक्षमेशस्य क्षेत्रपृथ्वीपतेः प्रागुदृढा=पूर्वपरिणीता द्वितीया वनिता स्त्री इव सिन्धुस्तन्नाम्नी पश्चिमाभिवाहिनी महानदी प्रवहति । यद्वा पूर्व क्षेत्रक्षमेशस्य द्वे वनिते तयोः पूर्वां परिचाययतीत्युक्तमपरांपरिचाययन्नाह-सिन्धुरिति. द्वितीया-भागीरथीतरा सिन्धु-स्तन्नाम्नी पश्चिमाभिमुखवाहिनी महानदी प्रवहतीति शेषः । सा कीदृशी? अब्जमुखानुसारिणी=अब्जं पद्म पद्महद इत्यर्थस्तस्य मुख-निस्सरणं निर्गममागे इत्यर्थः अग्रभागोवा तत् अनुपश्चात् (तस्य) समीपे वा सरति गच्छतिपततीतीत्यर्थ स्तच्छीला । जड़प्रससङ्गालयोर्डलयोश्चैकत्वस्मरणात् जलप्रसङ्गात् जलसम्बन्धात् वृतचारुवारुणीचरुणोदेवताऽस्याः वरुणस्येयं वा वारुणी-पश्चिमदिक्. वृता-स्वीकृता चारुशोभना वारुणी यया सा तथोक्ता अन्यापि- -