SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-6 स विषयो विषयोजनभक्ष्यवत् , सुमनसा मनसां भयकारणम् । भुवि दितो विदितोऽपि तदाभया शवरसंवरसंकलितोऽभवत् ॥ २५॥ अन्धयः--स विषयः विषयोजनभक्ष्यवत् सुमनसां मनसा भयकारणम् भुवि दितो विदितोऽपि तदा अभयाशवरसंवरसंकलितः अभवत् ॥ २५ ॥ व्याख्या-~स विषयः सांसारिकविषयाभिलाषा देशश्च विषयोजनभक्ष्यवत् विषेण गरलेन योजनं संयोजनम् यस्य तत् विषयोजनम् तच भक्ष्यश्चेति विषयोजनभक्ष्यम् तदिवेति विषयोजनमत्यवत् विषमिश्रितान्नवत् सुमनसां सहृदयानां मनसां चित्तानां भयकारणम् भयहेतुः भुवि जगति विदितोऽपि प्रसिद्धोऽपि अनेकजनसे वितोऽपि दितः खण्डितः सन् तदा तसिन् समये अभयाशवरसंवरसंकलितः अभये मोक्षे आशा अभिलाषा यस्य स अभयाशः तस्य यो वरः श्रेष्ठः संवरः सनिरोधः संयम इत्यर्थः तेन संकलितः संयुक्तः इति अभयाशवरसंवरसंकलितः मुमुक्षुजनप्रवलवैराग्यविहितनिरोधः अभवत् सर्वथा मुमुक्षुजनपरित्यक्तोऽजायत इति भावः ॥ २५ ॥ पुनरपि प्रबलाकृतिकौशला, __ भगवतामुदयेन नु भाविनी । नवनवेभ्यनिवासविलासिनी, वसुमती सुमतीशजयश्रिया ॥ २६ ॥ अन्वयः-भगवतामुदयेन पुनरपि प्रबलाकृलिकौशला नवनवेभ्यनित्रासविलासिनी सुमती जयश्रिया वसुमती भाविनी ॥ २६ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy