SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाये व्याख्या - घनमहान् घनः अतिशयः महान् घनमहान् अथवा घन इव मेघ इव महान् घनमहान् अमहा अमम् रोगं इतवान् इति अमहा रोगनाशकः ध्रुवम् निश्चितम् रजताचलम् हेमाद्रिम् इतः गतः दिग्विजय क्रमेण हैमाचलं गतः अक्रिययारजताचलम् अक्रियया अव्यापारेणैव रजताचलम् स्वर्णपर्वतम् इतः प्राप्तः ये गत्यर्थकास्ते प्राप त्यर्थका इति भावः रतरागविमोचनात् रते स्त्रीपुंसगे यो रागोऽनुरागस्तस्य विमोचनात् त्यागात् अमधावपि अवसन्तेपि वसन्तऋतुं विनापि तद्दिशा दिन वसन्त इव मुदम् हर्षम् अधात् धारयतिस्म ॥ ४१२ अन्यपक्षे- धन महान् अतिशय महत्तरः अमद्दा रोग विनाशकारकः रजताचलम् स्वर्णपर्वतम् इतः प्राप्तः "रजत रूपये, गजदन्ते, रुधिरे, हरि, शैले, स्वर्णे धवले इति शब्दस्तोम मद्दानिधिः" क्रियया व्यापारेण धेयेणेत्यर्थः रजताचलमिव रजतगिरिरिव भरतराष्ट्र भरति लोकान् पोषयतीति भरतः तेषु राजते इति भरतराट् भरणकर्तृषु श्रेष्ठः स्तराग. विमोचनात् रते रमणे मोहने यो रागोऽनुरागस्तस्य विमोचनात् त्यागात् अमधावपि अवसन्तेऽपि मुदम् हर्षम् अधात् अयात् ॥ १९ ॥ तदनु तन्नगरं नगरञ्जनं, 4 व्यति साधितसाककुङ्कुमैः । द्रुतमपात पापमतो न तत्, ऋभुवनैर्भुवनैस्तुलितश्रिभिः ॥ २० ॥ अन्वयः -- तदनु साधितसाभ्रककुंकुमैः तन्नगरं नगरंजनं व्यधित अपातम् अपम् अतः तुलितत्रिभिः ऋभुवनैः भुवनैदुतन्न तत् ॥ २० ॥ व्याख्या--तदनु तत्पश्चात् तत् नगरं स्वकीयं पुरम् साधितसाम्रककुंकुमैः अभ्रकेन सहितः साम्रकः स चासौ कुंकुमथेति साम्र
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy