SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४.२ महोपाध्याय श्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः-~धरणेः हरिः स्वबलस्थिती सरितस्तटे सवरणं वरणं अधात् स खलु सवलयः स्वमहसा महसारमहानृपैः सिन्धुमतीतरत् ॥ ६ ॥ व्याख्या-धरणेः पृथिव्याः हरिः इन्द्रः धरणीन्द्रः स्ववलस्थिती स्वबलस्य सैन्यस्य स्थिती स्वसैन्यनिवेशाय सरितस्तटे सरतः अपरोदधेस्तटे रोधसि सवरणं वरणं वरणेन प्राकारेण सहितम् तदानीं सेनारक्षकरूपप्राकारसहितम् वरणं स्थिति उपनिवेशम् अधात् कृतवान् सेनासन्निवेशं कृतवानित्यर्थः सबलयः सपरिकरः स्वमहसा निजतेजसा महसारमहानृपः महेन उत्सवेन सारः श्रेष्ठः यो महानृपः तैः यद्वा महस्तेजोवत् यः सारो बलम् स महसारः स चासौ महानृपश्चति महसारमहानृपः तः तेजोवद्भिः सहेति शेषः सिन्धुम् सिन्धुनामानं नदीविशेषम् अतीतरत् तरतिस्म ॥ ६ ॥ शिवमगुः किल कोटिमुनीश्वरा, यदिह तां स शिला सहसा दधे । प्रतिकृतीः प्रणनाम ततोऽर्हता, बजनतो जनतोषकरीनृपः ॥ ७ ॥ अन्वयः--यदिह किलकोटिमुनीश्वराः शिवमगुः तां शिला स सहसा दधे ततः वजनतः नृपः जनतोषकरी: अर्हतां प्रतिकृती: प्रणनाम ॥ ७ ॥ ___व्याख्या-यद् यस्मात् इह कोटिशिलातीर्थे कोटि मुनीश्वराः कोटिसंख्यकमुनिप्रवराः शिवम् मोक्षम् अगुः किल गताः किल ताम् शिलाम् स भरत चक्रवर्ती सहसा झटिति आदधे धृतवान् ततः तदनन्तरम् वजनतः गमनतः नृपः भरतमहीपतिः जनतोषकरीः जनानां लोकानां तोषकरीःतुष्टिकरीः कल्याणसंपादिकाः अहंतां जिनानाम् प्रतिकृतीः प्रतिमाः प्रणनाम प्रणतिस्म ॥ ७ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy