SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७६ महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्ये यते इति कुटजः तस्य अनिशयः महानिद्रा "शयः हस्ते सर्प निद्रायां शव्यायां पणे चेति शब्दस्तोम महानिधिः " तेन साकेतकेश्वरदृशा अयोध्याधीश्वरेण तीर्थकरप्रभुणा इव उदयतीति केन जनेन नोचे न उद्यतेस्म ॥ १९ ॥ अम्भाधरेणजनिता-बनिता विशल्या, द्रोणाह्वयेन गिरिणा हरिणाभिनीता। कौशल्यहारिमनसा हरिमप्यशल्यं, __ स्नानाम्भसव विदधे स्वमुनाहतैव ॥ २० ॥ अन्वय:----द्रोणाह्रयेन अम्भोधरेण गिरिता वनिताविशल्यया अनिता कौशल्यहारिमन सा हरिणा अमुनाहले व अशल्यम् हरिम् स्नानाम्भसैव विदधे ॥ २० ॥ व्याख्या-गिरिणा पतनशीलेन द्रोणाहयेन द्रोणनाम्ना अम्भो. धरेण मेघेन यनिता महिला विशल्या विगतम् शल्यम् दुःखं यस्याः सा विशल्या निःशोका जनिता कृता वर्षायां गमनागमनाभावात् सर्वा अप्रोषितभर्तृका जाता इति विशोकत्वं तासमिति भावः कौशल्यहारिमनसा कुशलस्य भावः कौशल्यम् मांगलिकम् तेन हारि मनोहारि मनो यस्य तेन लोकमांगल्यपराधीनचित्तेन हरिणा सूर्येण अमुना अभिनीता मुक्ता वृष्टिरिति शेषः स्नानांभसैव सेकजलेनैव हरिम् भेकम् अशल्यम् तापरहितम् विदधे चक्रे बर्यासमये दर्दुराणाम् हर्षप्रकर्षों भवतीति तत्वम् । २० ॥ आदित्याजायते वृष्टिवृष्टेरनं ततः प्रजा इति मनुः ॥ ____ अन्यत्र गिरिणा सदुपदेशकेन द्रुणति हिनस्ति पापमिति द्रोणः स आह्वोऽभिधानं यस्य तेन द्रोणाह्वयेन पापनाशकेन अम्भोधरेण समुद्रविजयनाम्ना नृपेण अवनिता अबनेः पृथिव्याः भावः अवनिता विशल्या निष्पापा जनिता कृता अथवा अवनं रक्षणमेवावनिः तस्य
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy