SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ माचार्य भीविजयातसूरिप्रणीता सरणी टीका, सर्ग-७ १६ ___ अन्यत्र अर्कभूः अर्कात् मुर्यात् भवतीत्यर्कभूः कर्णः समुदितः प्राप्तोदयः भटकोटियोद्धा भटानाम् योद्धृणाम् "भटा योधाश्चयोद्धारइत्यम।" कोटिः भटकोटिस्तंयोधयतीति तथा, रोद्धा विपश्वाणां रोधनकर्ता स्वतन्त्रः स्वाधीनः हस्तिशतम् गजशतम् अपहस्तयति गलह स्तिकान्ददाति, बाणानाम् शराणाम् प्रकर्षणमाकर्षणम् तेन पिहितम् आच्छादितम् दिविधानम् दिविभागो येन स बाणप्रकर्षपिहिता म्बरदिविधानः स्वर्गेशः इन्द्रः तस्य नन्दनोऽर्जुनः, तस्य जयेन विजयेन कृताभिमानः कृतगव इति स्वर्गेश नन्दनजयेन कृताभिमान: अभूदिति शेषः ॥ १३ ॥ ____ अथ च । अर्कः अर्कः इन्द्रः 'अर्कः सूर्य इन्द्रे ताने स्फटिके विष्णौ पण्डिने चेति शब्दस्तोममहानिधिः" तस्मात् भवतीति अर्कः अर्जुन: अन्यद्विशेषणम् पूर्ववद्योज्यम् स्वर्गेशनन्दनजयेन कृताभिमानः स्वर्गस्य ईशः स्वर्गेशः इन्द्रः तस्य नन्दनः इति स्वर्गेशनन्दनः, जयति शत्रूनिति जयः स्वर्गेशनन्दनश्चासौ जयश्चेति स्वर्गेशनन्दनजयः तेन कृताभिमानः कृताहंकारः अहं महेन्द्र पुत्रः जयी चेति कृतगर्व इत्यभिप्रायः ॥ १३ ॥ श्लेषः ।। तत्रोबभूव सुरभिः सुरभित्प्रसङ्गी, पद्मप्रबोधविधिना भुवनानुरागी । चक्रे निशाचरबलक्षयतो वियोगं, भिन्दन् शिलीमुखबहुप्रसरोपयोगात् ॥ ११ ॥ अन्वयः-तत्र सुरभृत्प्रसंगी पद्मबोधविधिना भुवनानुरागी सुरभिः उद्धभूव, शिलीमुम्व बहुपसरोपयोगात भिन्दन् निशाचरबलक्षयत: वियोगम् चक्रे॥ , चत्रे पार्श्वज्ञानाद्वसंतवर्णनम् ।
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy