SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाब्बे शुद्धैषणादिविधिना शुद्धः उत्तेजितः य एषणः बाणः स आदिर्यस्य विधेः तेन मदनहेतुकतीक्ष्णवाणादिविधानेन उच्चैः अतिशयम् सुरवृष्टिः सुष्ठु राजन्ते शोभन्ते इति सुराः पुष्पाणि तेषाम्वृष्टिर्वर्षण सृष्टिः मुक्तानुयुक्तकरणैः मुक्ता विकसिता अनुयुक्ता विकाशोन्मुखाः तेषां करणैर्विधानैः जनयाम्बभूवे विरचयामासे वसन्ते कामस्य बाणाय पुष्पाणि सज्ज्यन्ते || ३६० अन्यपक्षे -- सिद्धोपदेशवचसा सिद्धानां केषांचित त्रिकालज्ञानवताम् यत् उपदेशवचः तेन कृतकर्णभेदम् कृतः विहितः कर्णस्य भूपतेर्भेदः छेदो येन तत् श्वेताश्ववाहनवलम् श्वेताश्ववाहनस्य अर्जुनस्य बलम् सैन्यम् स्वनृपानुमत्या अर्जुनाज्ञया शुद्धैषणादिविधिना शुद्धस्तीक्ष्णीकृतः य एषणः बाणः स आदिर्यस्य स नितान्तोत्तेजितवाणादिः तस्य विधिना विधानेन मुक्तानुयुक्तकरणैः मुक्ताः शत्रौ प्रक्षिप्ताः अनुयुक्ताः मोचनाय तूणिरान्निष्कासिताः तेषां करणैर्विधानैः सुरवृष्टिः सुन्वन्ति विपक्षान् पीडयन्तीति सुराः बाणाः तेषाम् वृष्टिर्वषणम उच्चैः अतिशयम् जनयांबभूवे उत्पादयामासे ॥ ७ ॥ एषणो लौहमये वाणे इति शब्दस्तो० श्लेषः ॥ सीतापहारविधिरेष तवोपहार - व्याहार निर्भयविहारविनाशनाय । तेनाधुनापि मधुनाशनतां जहीही त्याहेव रावणमिह स्वधियालिजन्यम् ॥ ८ ॥ अन्वयः - एष सीतापहारविधिः तवोपहारव्याहार निर्भयविहारविनाशनाय तेन अधुनापि मधुनाशनताम् जहीहि इति अलिजन्यम् स्वधिया इह रावणम् आद इव ॥ ८ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy