SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३५८ महोपाध्यायश्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये रौद्रस्य बलिता बलस्य भावः बलिता सामर्थ्यम् जाता अपगता निवॄ सत्यर्थः सर्वसहिष्णुत्वात् दिनश्रीः दिनशोभा मधुरांगभाजाम् सुकुमारशरीराणाम् नातिशीतमधुरा अधिकशीताभावात् मधुरा मनोज्ञा अथ च अङ्गभाजां शरीरिणाम् मधुरा सेवनयोग्या उपवने उद्याने पवनेरि तेषु पवनवी जितेंषु द्रुमेषु पादपेषु चरणाद्विचरणात् मयूनाम् मृगानाम् यूनां तरुणानाम् रमणाद्विहारात् आपानमपि पानगोष्ठी अपि मधुरमिति शेषः मयुः स्यात्किन्नरे मृगे इति शब्दस्तोममहानिधिः ॥ ५ ॥ यमकालंकारः || अत्र सर्गे इत आरभ्य एकविंशतिश्लोकपर्यन्तं वसन्ततिलकं वृतम् तल्लक्षणश्चज्ञेयं वसन्ततिलकं तभजा जगौग इति ॥ सा फाल्गुनस्य यशसां जगति प्रशस्तिः, प्रादुर्बभूव महसा जितसौरभासः । मन्ये तदर्कतनुजन्मविभाविनोद स्तत्याज मोढ्यमचिरान्न तथा प्रसह्य ॥ ६ ॥ अन्वयः - - महसा जितसौरभासः फाल्गुनस्य जगति यशसां प्रशस्तिः प्रादुर्बभूव तत् अतनुजन्मविभाविनोदः अचिरान्मोढ्यम् तत्याज तथा न इत्यहम्मन्ये ॥ ६ ॥ प्रसा व्याख्या - महसा जितसौरभासः महसा तेजसा जिता लब्धासौरस्य सूर्य सम्बन्धिनः भा कान्तिर्येन तस्य जितसौरभासः प्राप्तसूर्यका न्तेः यद्वा महसा खकीयतेजसा जिता पराभृता सौरभा सूर्यप्रभा येन स जितसौरभाः तस्य जितसौरभासः अथवा महसाजितसौरभासः अप्राप्तसूर्यरुचेः फाल्गुनस्य तपस्यस्य यशसां कीर्त्तीनां प्रशस्तिः प्रशंसा प्रादुर्बभूव समुत्पेदे तत् अर्कतनुजन्मविभाविनोदः अर्कस्य दिवाकरस्य तनुजन्मविभा शरीरजातप्रकाशः अचिरात् तत्क्षणमेव प्रसह्य हठात्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy