SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ माचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-७ १५३ रामपक्षे-तत्र समवसरणे लंकापरिसरकुसुमायुधोद्यानसमागताप्रमेयबलनामर्षिसमुत्पन्न केवलज्ञानोत्सवचिकीर्षुमेहेन्द्राधिष्ठितस्थाने भुवः पृथिव्याः रमणैः पृथ्वीपतिभिः सत्रा समम् सकलभरतस्वामी भावी नवोदितचक्कभृत् रामः आगमत् अन्यत् पूर्ववद्योज्यम् ।। कृष्णपक्षे-समवसरणे युद्धसमाप्ते निवृत्तयुद्धे सति तत्र कृष्ण सन्निधिभूमौ भुवः रमणैः सह जरासन्धपक्षीयनृपैः समम् सकल भरत. खामी नवोदीतचक्रभृत् - कृष्णः अगमत् अन्यद्विशेषणं यथापूर्वमनु. सन्धेयम् ॥ १॥ ___अत्र सर्गे हरिणीवृत्तन्तल्लक्षणं यथा 'रसयुगहयैन्सौम्रोस्लो गो यदा हरिणी तदा ॥ १॥ तपनतनयस्तस्याप्यग्रेसहः सह सेनया, करटिघटनाटोपारोपादियाय जयाश्रयः। असहनजनक्षोभं तन्वन् सधन्वभटैः श्रिया, हरितनुजवद् गन्धर्वाणां स्मरध्वजगर्जितैः ॥२॥ अन्वयः-तपनतनयः सह सेनयाऽपि अग्रेसहः करटिघटनाटोपारोपात् जयाश्रयः गन्धर्वाणाम् स्मरध्वजगजितैः सधन्वभटैः श्रिया हरितनुजवत् असह. नजनक्षोमं तन्वन् इयाय ॥ २ ॥ व्याख्या-तपनतनयः तप्यते लोकोत्तरमैश्वर्यमश्नुते इति तपन: अथवा तपति कामादीनिति तपनः यद्वा तापयति कर्मादिकषायानिति तपना तनोति धर्ममिति तनयः तपनचासौ तनयश्चेति तपनतनयः परमैश्वर्यसम्पन्नधर्मप्रवर्तकः सह सेनया अग्रेसहः एति स्वामित्वं यया सा इना शासनपद्धतिः तया सहिता इति सेना तया अग्रेसहः शासनपद्धतिमनुसृत्याग्रेसरः करटिघटनाटोपारोपात् करोति शब्दमिति करटः करट एक करटी " स्वार्थ इन्" तस्य या घटना आयोजना
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy