SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३४० महोपाध्याय श्रीमेघविजयगणिविरचिते सप्लसम्धानमहाकाब्बे वाहो वाहनं यस्य तेन विवाहेन गरुत्मद्वाहनेन कारणेन तत्क्षणे रावणयुद्धसमये श्रियः विजयलक्ष्मीः यद्वा श्रियः रावणसम्पदः अगा. हत अप्राप्नुत ।। ५४ ॥ अथवा अगति कुटिलं गच्छतीति अग् "कर्तरि विप्" न अग् नाम् तेन नागा अकुटिलगामिना अहतविवाहेन अपराहतगरुत्मद्वाहनेन उपलक्षितः श्रियः विजयलक्ष्म्याः सदृशः योग्यः सदृशः ज्ञानवान् ना नरः विवाहेन श्रियः रावणराजलक्ष्मीः अगाहत आसादयत् ।। कृष्णपक्षे-नागयोः पद्मोत्तरचंपकयोः यत् आहतम् आहननम् तत् नागाहतम् विपक्षी गरुडः स एव वाहनम् इति विवाहनम् नागाहतश्च विवाहश्च इति नामाहतविवाहः तेन नागाहतविवाहेन उपलक्षितः तत्क्षणे तत्समये श्रियः लक्षम्याः सदृशः योग्यः ना पुरुषः तत्क्षणे शिशुपाल वाहोत्सवे सदृशः शोभनयनाः श्रियः रुक्मिणी विवाहेन राक्षसविबाहेन अगाहत अप्राप्नोत् ॥ श्लोकाध्यमकं प्रकृते ।। प्राहरद्विजयः कणें-जपमाश्रित्य शाम्भवम् । अस्तस्तत्तेजसा द्रोण-भीष्माहितपराभवः ॥ ५५ ॥ अन्ययः-विजयः शाम्भवमाश्रित्य कर्णेजपम् प्राहरत् तत्तेजसा द्रोण- . भीष्माहित पराभवः न्यस्तः ॥ ५५ ॥ व्याख्या-विजयते कपायादीनिति विजयः शाम्भवम् शं कल्याणम् जनानामिति शेषः भवत्यनेनेति शंभवस्तस्य भावस्तम् आश्रित्य अभिलक्ष्य कर्णेजपम् सूचकम् प्राहरत् निरस्यत् यदि कर्णेजपानां स्थिभवेत्तदा कदाचिदपि लोककल्याणं न संभाव्य ते इति विचार्य तं निशस्यदिति भावः " कर्णेजपः सूचकः स्थापिशुनो दुर्जनः खल इत्यमरः" तत्तेजसा तस्य जिनेन्द्रस्य तेजसा प्रभावेन द्रोण भीष्माहितपराभवः द्रुणति हिंसयति कौटिल्ययतीति द्रोणः भीषयतीति
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy