SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३१६ महोपाध्याय श्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाम्बे अन्वयः-पुरिमतालाख्यसख्योपवनधारणाम् आप्तः समाधानोपदेशतः काञ्चनाद्रिक्रियाम् आधात् ॥ २५ ॥ व्याख्या-आदीश्वरपक्षे । पुरिमतालाख्यसख्योपवनधारणां पुरिमतालाख्यस्य पुरिमतालनाम्नः अयोध्यायाः शाखानगरस्य सख्यम् मित्रम् सन्निहितमित्यर्थः यदुपवनम् उद्यानम् तत्तथोक्तम् आप्तः प्राप्तः तदुपवनस्थः समाधानोपदेशतः समाधानस्थ समाधेः य उपदेशः महिमा तस्मात् अथवा शमस्य शान्लेः यदाधानम् स्व. स्मिन्नाश्रयणम् तस्य य उपदेशः प्रभावस्तस्मात् काश्चानाद्रिक्रियाम् काञ्चनाद्रेः स्वर्णपर्वतस्य मुमेरोर्या क्रिया निश्चलता तां स्थिरताम् अधाव अदीधरत् ॥ २५ ॥ जिनेन्द्रचतुष्टय पक्षे । आप्तः पुरिमतालाख्यसख्योपवनधारणाम् पुरिमताम् नगरवासिनाम् आसमन्तादलति भूषयति आत्मानं यत्र यद्वाऽऽलति खेलति यत्र सा आला खेला सा ख्यायते यत्र तत् पुरिमतालाख्यम् नागरजनमनोरमस्थानम् तस्य सख्योपवनन् सदृशमुद्यानम् तत्र धारणाम् स्थितिम् आप्तः प्राप्तः समाधानस्य उपदेशतः समाधेः शमाश्रयस्य वा उपदेशतः प्रभावतः काञ्चनाद्रिक्रियाम् सुमे. रुदृढ़ताम् अगात् आश्रयत् ॥ २५ ॥ रामकृष्णयोः पक्षेप्येवमेवावसेयम् ।। पार्श्वनाथस्य वारणस्या धातकीतरुतले केवलज्ञानमुत्पन्नम् नेमिनाथस्य रैवतेऽद्रौ वेतसतस्तले शान्तिनाथस्य हस्तिनापुरे सहस्राम्रवणे नन्दिवृक्षतले ।। ऋजुवालुकानदीतटे शालवृक्षतले महावीरस्य केवलज्ञानम् ।। २५ ॥ संपन्ने सकलेऽध्यक्षे लोकालोकप्रकाशिनि । देवदुन्दुभयो नेदुर्दिवि दुर्नयवारकाः ॥ २६ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy