SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३०८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः-चिदंश दुर्भदं चेद तस्य विभेदने मुख्यं शौचधर्मम् पुरस्कृत्य सन्मार्गणैषणम् भदधात् ॥ १४ ॥ व्याख्या-चिदंशं अंशयति समाघातयतीति अंशः समाघातका चिदः अंशः चिदंशः तम् ज्ञानावरणम् सज्ज्ञानप्रतिबंधकमित्यर्थः दुर्भेदम् दुःखेन भिद्यते इति दुर्भेदम् कष्ट भेदनसाध्यम् वेद जानाति तस्य चिदंशस्य ज्ञानावरणस्य विभेदने छेदने मुख्यम् प्रधानम् शौ. चधर्मम् पवित्रधर्मम् निर्मलाचारम् पुरस्कृत्य अने विधाय सन्मार्गेष. णम् सत्पथान्वेषणम् अदधात् अकृत ॥ रामकृष्णपक्ष-चिदंश चेतनाशं दुर्भेदम् कठिनसाध्यम रावणरूपसामर्थ्यशालि जाग्रच्चैतन्यबदित्यर्थः एवं जरासंवरूपमित्यर्थः तस्य विभेदने शौचधर्मम् निर्मलधर्म स्याद्वादरूपम् पुरस्कृत्य स्वीकृत्य स न्मार्गणैषणम् सद्वाणशोधनम् अधात् अकृत ॥ १४ ॥ त्यक्त्वाऽनुबन्धिनो लोके मिथ्याबोधस्थमानसान् । क्लीबान स्त्रीसंप्रयोगेषु लीनांस्तस्थौ स सुस्थिरः ॥१५॥ ___ अन्वयः-लोके मिथ्याबोधस्थमान सान् अनुबन्धिनः क्लीबान् स्त्रीसंप्र. योगेषु लीनान त्यक्त्वा सुस्थिरः तस्थौ ॥ १५ ॥ __ व्याख्या-स जिनेन्द्रः लोके संसारे मिथ्याबोधस्थमानसान् मिथ्याबोधे असज्ज्ञाने तिष्ठतीति मिथ्याबोधस्थः स मानसो येषां तान् असज्ज्ञान निरतान् क्लीबान् पुरुषार्थशून्यान् अथवा सज्ज्ञानेऽपि श्र. द्धाभक्तिविरहितान् स्त्रीसंप्रयोगेषु स्त्रीसंगेषु लीनान् रतान् स्त्रीपरवशान अनुबन्धिन अनुगतान् त्यक्त्वा विसृज्य सुस्थिरः स्वसंकल्पे दृढः तस्थौ स्थितवान् ॥ १५ ॥ स्त्रीभेदं नपुंसक मेदं च क्षयं कृत्वा मुस्थिरस्तस्थौ ।। रामकृष्णपक्षे-मिथ्याबोधस्थमानसान मिथ्यायोधे शत्रुकृतोप
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy