SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ भाचार्यभीविजयात रिप्रणीता सरणी टीका, सर्ग--६ ३०३ व्याख्या-धीरधीः धीरा अनुद्धता स्थिरेत्यर्थः धीर्बुद्धिर्यस्य स निश्चलमतिः शमरस शान्तिरसं गतः शान्तिरसप्रधानः अजिह्मगधिया जिले कापटये गच्छ तीति जिह्मगा न जिह्मगा अजिह्मगा अकुटिला सा चासो धीश्चेति अजिह्मगधीः कापट्यरहितबुद्धिः तया किश्चित् किमपि मोक्षमिति शेषः लक्ष्यम् उद्देश्यम् आदाय गृहीत्वा क्रोधात् कोपात् बाधकम् तपोविनकारकम् अथवा बाधकं मोक्षबाधकं युद्धती ति योधस्तम् कामादिकम् कर्म वा विव्याध निवर्तयामास ॥ रामकृष्णपक्षे-समरसंगतः संग्रामाङ्गणगतः धीरधी: निश्चलमतिः रामः कृष्णश्च अजिह्मगधिया कापट्यरहितबुद्ध्या किंचित् किमपि विजयादि कम लक्ष्यमुद्देश्यम् आदाय गृहीत्वा क्रोधात् कोषात् बाधक अपकारिणम् योधम् सैन्यम् विव्याध विध्यतिम ॥ ८ ॥ पञ्चाननक्रियावीर्याद वारये दुर्मनं गजम् । कारये-दानपयसा ससौरभं धरातलम् ॥ ९ ॥ युग्मम् । अन्वयः --पंचानन कियावी यात दुर्मनं गजम् वारये दानपयसा ससौरभ धरातलं कारये ॥ ९ ॥ व्याख्या-पंचाननक्रियावीर्याद पंचाननस्य सिंहस्य या क्रिया गजमर्दनादिः तत्र यद्वीर्यम् शक्तिः तस्मात् “पञ्चास्यः केसरीहरिरित्यमरः" दुर्मनम् गजम् वारये दुःखेन मनुते इति दुर्मनस्तम् दुःसाध्यम् गजम गजतीति गजः मदनस्तम मदनम् वारये निरुन्धे अथवा पश्चाननस्य शिवस्य या क्रिया मदनदहनादिरूपा तस्या वीर्यात् पराक्रमात् दुर्मनम दुःसाध्यम् गजम् मदनम् वारये निवारये दानजलेन उत्सर्गपयसा अथवा दानपयसा हस्तिमदजलेन "मदो दानमित्यमरः" ससौरभम् सौरभेन सुगन्धिना सहितम् सामोदम् धरातलम् क्षोणी तलम् कारये विधापये "मृत्युञ्जयः पञ्चमुखोऽष्टमूर्त्तिरिति हैमः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy