SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ मवन्दनमालिका स्तम्भादेः स्यादधो दारौ शिलेति हैमः” यद्वां शैलानां जिनेन्द्राणामधिष्ठानेन पवित्रितानां ग्रहणे तत्र गमने तद्दर्शनार्थमितिशेषः हितचिन्तकः स्वात्मानुकूल विचारपरः सवासवभूपतिः वसु अस्यास्तीति वासवः स चासौ भूपतिश्वेति स वासवभूपतिः अनेकविधधनधान्य समृद्धनृपः हृदये स्वमनसि दयितस्य मोक्षस्य प्रभोर्वा आसमंतात् रागोऽनुरागो यः स हृदयदयितारागस्तस्मात् चित्तगतप्रभु विषयकप्रीतितः अत एव पञ्चाननः पंचसु महाव्रतेषु आननः लक्ष्यो यस्य स यद्वा पञ्चसु पंचेन्द्रियेषु आननः संग्रामलक्ष्यो यस्य, सदशाननः दशया कालकृतविशेषरूपया गर्भवासजन्माद्यवस्थया सहितम् सदशम् आसमन्तादन्यते जीव्यते इति आननम् जीवनम् सदर्श आननं यस्य स तथोक्तः गर्भादिवासजीवनकः समरसीमानम् सम् सम्यक् ऋच्छति गच्छति संसारादिति समरः विरक्तो जिनेन्द्रः तस्य सीमानं समीपम् प्रापत् अगमत् ।। ५७ ।। रामपक्षे - प्रभुविहरणे प्रभो रामस्य विहरणे रावणं प्रति युद्धायगमने अथवा प्रभोः सीताया विहरणे विशेषतो हरणे जनावनघनमतिः जनसाहाय्य दृढबुद्धिः लोकः सुग्रीवादिः स्वौकः स्वस्य ओकः आश्रयं दाने अर्पणे आश्रयदाने शैलग्रहे तदधिष्ठित पर्वतस्थितौ, हितचिन्तकः समर्थः रामहितसाधकः समरसीमानम् रावणयुद्धभूमिं प्रापत् अगमत् सवासत्रभूपतिः सवासवानां देवानामपि भूपतिः शासक: हृदयदयितारागात् हृदये मनसि दयितायाः सीतायाः रागात् प्रेमतः हेतोः पञ्चाननः सिंह इव लुप्तोपभा सदशाननः रावणः समरसीमानं रामरणभूमिं प्रापत् अयासीत् ।। ५३ ।। कृष्णपक्षे - प्रभुविहरणे प्रभोर्जरासंघस्य विहरणे साक्षात् गमने सति स्वकः शोभनगृहवान् जनावनघनमतिः जनानां संग्रामगतशत्रुपक्षी २९५
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy