SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २४८. महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये प्रचलति मिथस्तत्तेनागोऽनुगेऽभिमुखागते, नभसि रभसाक्रान्त कान्तेभराद् बहुदीप्तितः । कतिपयदिनीमारामः स-दाश-रथी-रसाद् , गिरितटमगाद राजा व्याजाहते मगधाश्रयः ॥५३॥ अन्वयः-- कान्तेभंगत् बहुदीप्तितः रभसाक्रान्ते अभिमुखागतेऽनुगे मिथः नभसि प्रचलति तेन अगः धामारामः सदाशरथिः रसान कतिपयदिनैः मगधा श्रयः व्याजाहते गिरिनटमगात् ॥ ५३ ॥ ___ व्याख्या-मिथः परस्परम् प्रचलति प्रसरति अनुगे अनुगा. मिनि पश्चादागच्छति जने तथा अभिमुखागते गन्तव्यदेशात् संमुखा. गते लोके च तेन अनुगनेन अभिमुखागतेन च आगः आसमंतात् गम्यते इति आगः गमेः कर्मणि डः अनुगतः बहुदीप्तितः अतिप्रभातः कान्तेभरात् कात्याधिक्यात् नभसि आकाशे रभसा वेगेन आका न्ते व्याप्ते सति आकाशमण्डलव्यापकतेजःपुज्जे मति धामारामः धाम तेजः आरमते यस्मिन म धामारामः धामनिधिः दाश्यते इति दाशः रम्यते अनेनेति रथः इन्द्रियः दाशः हतः रथ इन्द्रियो यस्य स दाशरथी विजितेन्द्रियः अमगधाश्रयः मगं पापं दधातीति मगधः न मगधः अमगधस्तमाश्रयते इति तथोक्तः निर्मला राजा दीप्तिमान् स जिनेन्द्रप्रभुः व्याजाहते निर्व्याजम् गिरितटम् गिरिसन्निधिम् अगाव अयासीत् ॥ ५३ ॥ रामपक्षे-कान्तीप्लेस्तेजस इत्यर्थः अतिशयात् अत एव रभसाक्रान्ते वेगवति अभिमुखागते स्वसान्निध्यमुपागते अनुगेऽनुनामिनिजने मिथः परस्परं न भसि आकाशे आकाशवर्ल्सना प्रचलति गच्छति सति तेन प्रचलता सैन्येन सहेत्यर्थः अगः गन्तुमशक्यः शत्रुभिरिति
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy