SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-५ २६५ ____ अन्वयः-हरे जे तनुजे सवितृतनये रामासक्ते परे दौत्ये प्रसरति दिल्याः सुताभ यभंगुराः श्रुतिगतमहानादा: लोभक्षोभाद्विभीषणकायत: रणविरमणं देवम् निजमग्रज जगुः ॥ ३७ ॥ व्याख्या-हरेजिनेन्द्रस्य भुजे भुज्यते इति भुजम् कर्म तस्य भोगादेव क्षयत्वात् तस्मिन् भोग्यकर्मणि तनुजे अल्पीभूते कशीभूते "तनुर्देहे मूत्तौ अल्पे विरले कृशे चेतिशब्दस्तोममहानिधिः" सविता तनये सूयते प्रकाश्यते इति सविता भावे तृच्तम् तनोति विस्तारयतीति तस्मिन् प्रकाशविस्तारकारके विशेषत आत्मप्रकाशविस्तारके जिनेन्द्र रामे आत्मध्याने आसक्ते निमग्ने अत एव परे अत्युत्कृष्ट मोक्षे इत्यर्थः दौत्ये दूतकर्मणि प्रसरति ध्यानमेव मोक्षाय दूतकर्मकृदिति भावः दित्याः दातुं छेत्तुं योग्याः दित्याः सुताः मनसिजाः कामाः कामादयः भयभंगुराः भयभीता जाताः लोभक्षोभाद्विभीषणकायतः विभीषणकायता भयोत्पादककायोत्सर्गविधायकशरीगत् जिनेन्द्रात लोभक्षोभात् लोभस्य तद्विषयकजयाशारूपस्य क्षोभात् आघातात् जयाशा त्यागात् प्रत्युत निजपराजयभीतेः श्रुतिगत महानादा भयादेव महाशब्दकारका दीर्घविराविणः रणविरमणम् जिनेन्द्रतो विग्रहनिवर्तनम् निजमग्रजमग्रेसरं देवं द्योतनात्मकं मोहराजम् जगुः निवेदयामासुः जिनेन्द्रेण सह संग्रामनिवर्तनाय प्रार्थनां चक्रुरित्यर्थः ।। ३७ ॥ अर्थनिवन्धनेयं संक्षेति देवस्याप्यकथितकर्मत्वाद्वितीया । रामपक्षे सवितृतनये सूर्यपुत्रे सुग्रीवे रामासक्ते रामाधीने रामपक्षाश्रिते हरेर्वायोस्तनये पवनञ्जयपुत्र हनुमति भुजे बाहौ परे महति दौत्ये दूतकर्मणि प्रसरति विलसति दित्याः मुताः दैतेयाः राक्षसाः भयभंगुराः त्रासभुग्नाः श्रुतिगतमहानादाः आकर्णितमहानादाः हनुमत इति शेषः यद्वा युद्धाय सज्जीभूतानां श्रुतिगतमहाशब्दाः विभी.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy