SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ माचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५ २४१ कृष्णपक्षे-रिपुरतिवशः शत्रुविषयकमन्युपरतंत्रः पुत्रः यवना. दिभिः इभाश्वपदातिना गजतुरमादिसेनया च व्याप्तः परिवृतः विद. लितमतिः शत्रुकृतापराधस्मरणात् क्षुब्धचित्तः धुर्यां शत्रुजनितधर्षणसहनयोग्यायां पुर्या रुषं मानं जगृहे गृहीतः अनयचलनात् अनपराधकृतागस्काखेतोः कंसध्वंसं कसं कंसनामानं नृपं ध्वंसयति स कंसध्वंसस्तम् कृष्णं प्रपद्य न पीडयेदिति न किन्तु अवश्यमेव पीडयेत् यथा तथा तमासाद्य वैरं निर्यापयेदिति गुरुगिरा नृपाज्ञया जरासंधादेशेन स सिन्धुः तात्स्थ्यात्तच्छन्दम् , समुद्रान्तस्थः कृष्णः शिश्रिये सैन्येरिति शेषः सैन्यमावृणोत्तमिति भावः ॥ २१ ॥ खरविशरणात् कं-सागस्कृन्नरं हतदूषणं, पुनरपि तथा कुर्वाणं कस्त्यजेद् बलवान्नृपः। इति विमृशताऽनेनाधायि क्रियाव्यपदेशता, भवति यदयां सर्वासामप्यपानिधिरेव दिक् ॥२२॥ अन्वयः-क: बलवान्नृपः खरविशरणात् सागस्कृन्नरं हतदूषणं पुनरपि तथा कुर्वाण कं परित्यजेत् इति विमृशता अनेन क्रियान्यपदेशता अधाथि सर्वासामध्यपाम् अपानिधिरेव दिक् भवति ।। २२ ।। व्याख्या-~-खरविशरणात् खरस्य कामस्य विशरणात् विजयात् हतदूषणम् दोपरहितम् अत एव कंसागस्कृन्नरम् कंसात् अगति कुटिलं ब्रजति परित्यजतीति कंसागाः कृत नरो येन स कंसागस्कृन्नरः पानपात्र त्याजितनः तदाश्रयात् पानभाजनग्रहणमपि नरैस्त्यक्त इति भावः पुनरपि तथा कामादिविजयं कुर्वाणमाचरन्तम् एवम्भूतमलौकिकक्रियानिष्णातं जनं बलवान् ज्ञानवान नृपः भूपः अन्यो वा जनः त्यजेत परिहरेत् न संगृह्णीयात् इति विमृशता विचारयता क्रियाव्यपदेशता क्रियातत्परता तदनुसरता अधायि अकारि तदनुमारको जनो बभूवे.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy