SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्राचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १८७ अन्वयः—हे नरपते ! प्रभया प्रभाते स्वच्छासने भुवि वर्तमाने जनौघः मनाक तु अन्यायवर्त्तनमनाः न ( अस्ति ) सोऽयं तव वास्तवः प्रभावविभवः अभूत् इति मागधगण आह ॥ २६ ॥ व्याख्या-हे नरपते! युधिष्ठिरमहाराज? पक्षे विश्वसेनादि. नृपते ! प्रभया प्रभावादिजनितदीप्त्या प्रभाते-भातुं प्रवृत्त त्वच्छासने-तव शास्तिकर्मणि भुवि भूतले वर्तमाने विद्यमाने मति जनौधः= लोकसमूहः मनाक-अल्पम् तु अपि अन्यायवर्तनमना: अन्यायेन= असमञ्जल-अनुचित-विधिना अनीत्या वा वर्तने-आजीविकाकरणे यद्वा अन्याये असमञ्जसे अन्याय्ये. इत्यर्थः अनुचिते इति यावत् वर्तने जीवनोपाये मनो यस्य स तादृशः न अस्तीति शेषः सोऽयं वास्तवःयथार्थः तव-भवतः प्रभावविभव:प्रतापमहिमाऽभूत इति मागधगणः बन्दिजनसमूह आह ॥ २६ ॥ भीष्मोऽग्रतो-यमविधिः स्वगुरोरनिष्टः, __ कृष्णालकग्रहणकर्म सभासमक्षम् । वैराग्यहेतुरभवद् भविनो न कस्य, देवस्य वश्यमखिलं यदवश्यभावि ॥ २७ ॥ अन्वयः स्वगुरोरनिष्टः अग्रतः (स्वगुरोरपतः अनिष्टः) भीष्मः सभासमक्ष कृष्णालक ग्रहणकर्म अयमविधिः कस्य भविनो वैराग्य हेतुनीऽभवत् यत् अव. श्यभावि तत् अखिलं देवस्य वश्यम् । ऋपभादिपक्षेपु.--स्वगुरोरनिष्ठः अग्रत: भीष्मः सभासमक्ष कृष्णालकग्रहणकर्म यमविधिः कस्य भविनः वैराग्यहेतुर्नाभवत् ॥ २७ ॥ व्याख्या-पाण्डवपक्षे-स्वगुरोः (स्वस्य-आत्मनो गुरो:-पितुः) निजजनकस्य धृतराष्ट्रस्य यद्वा स्वगुरोःखोपदेण्डद्रोणाचार्यादेः स्वगु. रुजनस्य भीष्मादेर्वाऽपि अनिष्टः अनभीप्सितः अप्रिय इति यावत् अग्रतः पत्यादिवन्धुजनानां पुरत एवं यद्वा स्वगुरोः खपत्युर्युधिष्ठि
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy