SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४ १६९ .... ...... ........Anirnoon.......... जनितानन्दान् हित्वा-परिहाय अत्र चक्रवर्त्यधिष्ठितदेशे क्रमरागिणःक्रमे-आचारे चलने वा रागिणः कृतानुरागाः सन्तः नरसार्थगो. ष्ठयां-जनसमुदायमण्डल्यां स्वास्थयेन-सुखेन तस्थुः-स्थितवन्तः । चक्रवादीनां चक्रायधिष्ठायकतया देवानामिहागमनं जैनराद्धान्तप्रसिद्धम् ॥ १२ ॥ न्याये भुवि प्रस्समरे समरे न कोऽपि, स्थायी मिथःप्रतिघतोऽपि न चाततायी । तायी रसादसुमतां सुमताङ्कभाजा, तद्राजतेस्म तनयस्सनयस्स-राजः ॥ १३ ॥ अन्वयः--भुवि अस्य न्याये समरे कोऽपि समरे मिथः न स्थायी । प्रतिघतोऽपि कोऽपि आततायी न [आसीत] अस्य राज्ञः तनयः सुमताङ्कभाजामसुमतां रसात तायी सनयः सराजः राजतेस्म ॥ १३ ॥ व्याख्या- मुवि-भूमण्डले अस्य राज्ञः न्याये-नीतौ प्रसृमरेप्रसरति सति कोऽपि जनः समरे-संग्रामे मिथः-परस्परं न स्थायीराजभयेन नाऽवतिष्ठते. प्रतिघत:-क्रोधादपि कोपाविष्टोऽपि सन्नित्याशयः कोऽपि आततायी-आततेन-विस्तीर्णन शस्त्रादिनायितुं शीलमस्य सः-वधोद्यतः अग्निदादिलक्षण इति यावत् तथा चोक्तम् अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। . क्षेत्र-दागपहारी च पडेते आततायिनः ।। इति । न आसीदिति शेषः। किञ्च अस्य राज्ञः तनय:--पुत्रोऽपि सुमताङ्कभाजां-मुमतानां-सज्जनानाम् अङ्कम्-उत्सङ्गं-कोडं-भजन्ते इति मुमताङ्कभाजस्तेषां तादृशानाम् असुमतां-प्राणिनां रसात स्नेहात् वात्मल्यादिति यावत् तायी-रक्षणशीलः पुनः सनया-नीतियुक्तः, सराजा-राजनं राजः-दीप्ति तेन सहितः राजतेस्म शोभतेस ॥१३॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy