SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १४५ रामपक्षे-भूमान् पृथ्वीपतिः रुक्मी स्वर्णवान् जनकः जनकनृपः खसारं धनुः अधिरोप्य पणत्वेन निर्धाय स्थित इति शेष रामश्चधनुः अधिरोप्य आकृष्य समौर्वी कम्विधायेत्यर्थः हलिना आकर्षयता कृत्रिमयुद्धं विधाय वपने कृते चन्द्रगतिभामण्डलादीनां विलक्षे कृते सति कृतानुरागाम् जातस्नेहाम् वृताम् पूर्वमेवकृतवरणाम् जानकीमिति शेष अदात् रामाय आर्पिपन् सकान्तः सपत्नीकः हरिः रामः निजे स्वकीये देशे अयोध्या नगरे पुनः भूपः इयाय आययौ । कृष्णपक्षे-भूमान् भूमीपतिः रुक्मी रुक्मिनामानरपतिः जनकः ज्येष्ठभ्रातृत्वात् पितृसमत्वेन जनकशब्दप्रयोगः कर्नव्याकर्त्तव्यशिक्षकः कृतानुरागाम् कृतप्रणयाम् स्वसारम् भगिनीम् रुक्मिणीम् विचार्य सम्यक् परिभाव्य धनुः आरोप अधिज्यम्बिधाय हलिना सीरिणा बलदेवेन युध्वा युद्धं विधाय वपने केशच्छेदे कृते सति वृताम् शिशुपालेन पूर्वकृतवरणामपि ताम् रुक्मिणीम् अदात् कृष्णाय प्रायच्छन् सकान्तः सपत्नीकः हरिः कृष्णः पुनः निजे आत्मीये देशे द्वारकायाम् इयाय आजगाम ॥ ३१ ।।। एवं पुराणचरितान्यधिगत्य देवः, प्रीत्या व्युवाह ननु धर्मधियं विधाय । तस्थुः परःशतनृपा अपरे तथैव, साम्वत्सरे वितरणे कृतकर्मयोगः ॥ ३२ ॥ अन्वयः-देवः एवं पुराण चरितानि अधिगत्य ननु धर्मधियं विधाय प्रीत्या व्युवाह साम्वत्सरे वितरणे कृतकर्मयोगः अपरे परःशतनृपाः तथैव तस्थुः।।३२॥ व्याख्या-देवः द्युतिमान् जिनेन्द्रश्च पुराणचरितानि पुरातनव्यवहाराणि अधिगत्य विचार्य ननु इति कोमलालापे निश्चये वा धर्मधियं धर्मबुद्धिं विधाय ननु धर्मबुद्धिं कृत्वैव खलु धर्मः स्ववंशस्था
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy