SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेव विजयगणित्रिरचिते सप्तसन्धानमहाकाव्ये अनन्तरायं अन्तरायरहितं निर्बाधं पूर्वेष्टसाधनविधानं पूर्वपूर्वनिर्धारितं यदिष्टसाधनम् चतुर्थपुरुषार्थसाधनम् विपिनम् दुःसाध्यम् तत् कर्त्तमनुष्ठातुम् परवारणेन अत्युत्कृष्टात्मबलेन मदोन्मत्तगजेन वा ययौ जगाम ॥ पार्श्वनाथ पक्षे-दैत्योपरुद्धमनसः दैत्येन लेदन भेदनादिना उपरुद्धम् अभिभूतं व्याप्तं मनो येषान्ते सदसद्विवेकरहिता ये भुवि भूमौ दुर्जना, दुराचारिणो यवननृपप्रभृतयः सन्तीति शेषः पूर्वेष्टसाधनविधानं पूर्व पूर्वकर्त्तव्यं यद् इष्टसाधनविधानम् प्रभावती परिणयरूपम् अनन्तरायम् निष्प्रत्यूहं कर्त्तु प्रयोजितुं परवारणेन अत्युत्कृष्टहस्तिसाधनेन विपिनम् भयजनकम् यवननृपं प्रति ययौ इयाय । रामपक्षे - ये सन्तः सत्पुरुषा महान्तस्ते स्वसमयज्ञविधिं स्वकी यसमयज्ञापकविधिं कर्त्तव्यं प्रपन्नाः कर्त्तव्योन्मुखाः भवन्ति ये दुर्जना दुश्चरित्रास्ते दैत्योपरुद्धमनसो जायन्त इति शेषः पूर्वेष्टसाधनविधानं सीतापरिणयरूपेष्टप्रथम कर्त्तव्यं अनन्तरायं निर्बाधं कर्तुं विधातुम् पर वारणेन परेषां शत्रूणां वारणेन दैत्यजननिरोधेन विपिनं ययौ ।! कृष्णपक्षे - रुक्मिणीविवाहरूपेष्टसाधनं कर्त्तुं ययाविति, शेषं पूर्ववत् ॥ २६ ॥ तीव्रतानुचरणानधिगम्य जानेः "जातेः " पूर्वेऽवशिष्टमपि तन्मनसा ननाम ॥ इत्याश्रयन्निव विधिन्तदगाधि जातं, ज्ञातं भजन् वनमियाय स गाधिजातं ॥ २७॥ १३८ अन्वयः -- जाने: “जातेः " तीव्रव्रतानुचरणान अधिगम्य पूर्वे अवशिष्टमपि तत् मनसा ननाम अगाधि जातम् विधिम् तद् आश्रयन्निव से ज्ञानम् भजन् गाधिजातम् वनम् इयाय ॥ २७ ॥ व्याख्या -जानेः " जातेः " उत्पत्तेः जन्मनः फलानि हेतून तीव्रतानुचरणान् महत्पुण्यपरिपाकप्रभाव साध्यदुःसाध्य नियमपरि
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy