SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये व्याख्या - लोके जने जगति वा अन्यगौरवधिया अन्यस्मिन जने गुरुवबुद्ध्या अध्ययनं पठनं प्रपद्य प्राप्य सम्यक् सर्वथा कलाकुशलता चतुःषष्टिकला नैपुण्यं भवतीति शेषः अस्य वर्णनीय महापुरु कस्य अध्ययनं विनैव अध्यापकाद्यालम्बनकपठनं विनैव कलाकुशलता अभूदित्यर्थः, अत्र दृष्टान्तं प्रदर्शयति सूर्यः स्वत एव आत्मनैव तत् प्रसिद्धं भुवनं प्रकटं करोति प्रकाशयति किं च अस्य सूर्यस्य पाटवे जगत्प्रकाशनकौशले परसंपरायः अन्यसहायः अन्याश्रयणं किं घटते युज्यते न घटत इत्यर्थः । अथ च अस्य चरित्रनायकस्य सम्यक्कलाकुशलता सर्वयाकलानैपुण्यं अध्ययनं पठनम्विनैव गुरुकुलशुश्रूषणं विनैव किन्तु लोके जगति अन्यगौरवधिया अन्येऽप्येवं कुर्युरित्येवं बुद्धया अध्ययनं गुरुकुलनिवासं प्रपद्य सम्यक् कलाकुशलता अभूदित्यर्थः ॥ अत्र दृष्टान्तालंकारः || २४ ॥ कं स प्रयोगमधिगत्यपरस्परेण, कं सं जहार करणाय जने हितस्य ॥ नैपुण्यपुण्यवशतोऽतिशयाश्रयेण, निष्कण्टकत्वमजनिष्ट निजेष्टदेशे ॥ २५ ॥ १.३.६ अन्वयः - - परस्परेण कं स प्रयोगम् अधिगत्य जने हितस्य करणाय के स जहार नैपुण्यपुण्यवशतः अतिशयाश्रयेण निजेष्टदेशे निष्कण्टकत्वम् अजनिष्ट ॥ २५ ॥ व्याख्या -- स प्रभुः आदीश्वरादिः कम् कमपि प्रयोगम् अनुष्ठानम् व्यापारम् परस्परेण क्रमेण अधिगत्य प्राप्य यद्वा कम् कमपि प्रयोगमश्वम् " प्रयोगः अनुष्ठाने निदर्शने अश्वे चेति शब्दस्तो महानिधिः " परस्परेण अन्योन्यतः अधिगम्य प्राप्य जने लोके हितस्य पथ्यस्य मंगलस्येत्यर्थः करणाय विधानाय स्थापनाय के सं पानभाजनं मद्यपानपात्रं "काम्यते कामिमिरिति" मावावद्यमित्यौणादिकः सः "
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy