SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धान महाका श्लेषः, क्षीराम्बुधेरिवेत्यंशे उत्प्रेक्षा च. अथ कुङ्कुमम् । चन्द्रः कर्पूरकाम्पिल्ल - सुधांशु - स्वर्ण- वारिषु इति मेदिनी ॥ ९॥ सारात्रिकां प्रवरमङ्गलदीपयुक्ति, सम्यग् विधाय सह गीतविनीतनृत्यैः ॥ साष्टोत्तरं शतमितैश्च नवीनकाव्यै १२० स्तुष्टाव तुष्टिभरपुष्टमना गवेन्द्रः ॥ १० ॥ अन्वयः --- गवेन्द्रः गीतविनीतनृत्यैः सह सारात्रिकां प्रवरभङ्गलदीपयुकि विधाय तुष्टिभरपुष्टमनाः सन् साष्टोत्तरं शतमितः नवीनकाय्यैः स्तुतिं चकार ॥१०॥ व्याख्या - गवेन्द्रः बृहस्पतिः स्वर्नायको वा । राम-कृष्णपक्षे गवेन्द्रः - भूमहेन्द्रः गीत विनीतनृत्यैः - गीतानि -गानानि विनीतनृत्यानि - उदारचरित योग्य नर्तनानि तैः सह तत्पूर्वकमित्यर्थः सारा त्रिकाम् - नीराजनक्रियया सहितां प्रवरमङ्गलदीपयुक्ति-स्नेहदशासमृद्धिकलित - माङ्गलिकविशिष्टप्रदीपयोजनां सम्यग् विधाय - उत्तार्य तुष्टिभरपुष्टमनाः- सन्तोषातिशयनिर्भरचेताः सन् साष्टोत्तरशतमितैःअष्टोत्तरशतसंख्यकैः नवीनकाव्यैः - अभिनवस्तुत्यात्मक काव्यैः तुष्टाव स्तुतिं चकार ॥ १० ॥ एवं सुरासुरकृताऽभिषवात्सवश्रीदेव: प्रभावविभवाऽनुभवत्रयेण ॥ अङ्गुष्ठजामृतसमाशनलब्धिपूर्ण स्तूर्ण सनन्दभवने ववृधे शशीव ॥ ११ ॥ अन्वयः --- एवं सुरासुरकृताऽभिषवोत्सवश्रीः अंगुष्ठजामृतसमाशनलब्धिपूर्ण: प्रभाव - - विभवाऽनुभवन्त्रयेण देवः सः नन्दभवने (सनन्दभवने) शशीव तूर्णं वबुधे ॥ ११ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy