SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाब्वे जिनप्रभुशरीरस्य धाम-स्वयंप्रकाशे त्विषं वा तेंजो वा शक्ति वा सुचिरं चिरकालपर्यन्तम् आलोक्य आलोक्य-निरीक्ष्य इह-अस्मिन् जिनदेवे त्रिलोक्या: जगत्रयस्य राज्य-राजत्वम् आधिपत्यमित्यर्थः न्याय्यं समुचितं-योग्यं अतः अस्मात् भगवतस्त्रिजगदधीशभवनाहत्वाद्धेतोः मेरी अचले भुमेरुपर्वते पयोभिः क्षीरार्णवाहृतनीरैः प्रभोः जिनदेवस्य अभिषेकं-स्मात्रमहोत्सवं कत्तु-सम्पादयितुं ममुपेयुः समुपेताः संगताः सम्भिलिता अभूवन् यद्वा समुपेयुः-सम्प्राप्ताः मेरुमिति शेषः विस्मयोऽद्भुतमाश्चर्य मित्यमरः । धाम शक्ती प्रभाव तेजोमन्दिर-जन्मसु इति विश्वः । पयः क्षीरे च नीरे च इति हेमचन्द्रः । अत्र पद्ये शार्दूलविक्रीडितं वृत्तम् ।। सूर्याश्वैर्मसजस्तताः सगुरवः । शार्दूलविक्रीडितमितिलक्षणात् ।। २५ ॥ इति श्री शास्त्रविशारद कविरत्न भट्टारकाचार्य विजयामृ. तसूरीश्वर प्रणीतायां सप्तसंधान महाकाव्यसरणीटीकायां द्वितीयः सर्गः॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy