SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ : १०६ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये वातं=पवनं चक्रुः =चालयामासुरित्यर्थः । परा:= अन्याः ताः= पूर्वोक्ताः दिक्कन्याः मणीमयादर्शराः = हस्तनिहित मणिखचितदर्पणाः सत्यः पुरस्सराः - अग्रेसराः गानक्रियायां अग्रीयाभूत्वा गीतविधिं=माङ्गलि - कगानकर्म जिनगुणगान क्रियां वा वितेनुः = चक्रुरित्यर्थः ॥ २२ ॥ कृत्वैव होमं वरचन्दनाद्यै-ग्रन्थिबबन्धुः करयोर्विभूतेः । आस्यं सलास्यं प्रविलोक्य रम्भा, स्तस्थुः पुरो लोकविभोरदम्भाः ||२३|| अन्वयः - अदम्भाः रम्भा वरचन्दनाथै: ( अरणिसंघर्षणोद्भव ) होमं कृत्वैव ( जिनस्य ) करयोः विभूतेन्थि बबन्धुः ( तदनु ) लोकविभोः आस्थं प्रविलोक्य सलास्यं ( यथास्यात्तथा ) पुरः तस्थुः || २३ ॥ , अरणिघर्षणोद्भव व्याख्या - अदम्भाः कैतववर्जिताः रम्भा:-देवकन्याः वरचन्दनाद्यैः=सुरभिदिव्यचन्दनप्रभृतीन्धनैः इति शेष: होम-हवनं कृत्वैव-विधायैव करयोः = जिनहस्ताम्बुजयुगे विभूतेः = हुतचन्दनभस्मनः ग्रन्थि = रक्षापोट्टलिकां बबन्धुः = बध्नन्ति - स्म । तदनु लोकविभोः = जगत्प्रभोः आस्यं = मुखं प्रविलोक्य तदनुमता सलास्यं = स्त्रीनृत्येन सहितं यथास्यात्तथा पुरो=s ये तस्थुः = आसांचक्रिरे ॥ २३ ॥ जाते जिनेशे त्रिजगदिनेशे, = 3 लेभे भुवि स्वामिवरैश्चलत्वम् । चलाचलस्वासनभावनेन, जन्मावबोधे हृदि पावनेन ॥ २४ ॥ अन्वयः - त्रिजगद्दिनेशे जिनेशे भुवि जाते पावनेन चलाचलस्वासनभावनेन जन्मावबोधे सति स्वामिवरैः हृदि चलत्वं लेभे ॥ २४ ॥ :
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy