SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ .९२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाव्ये न्तरेण सङ्घटनारूपां गूढाभिप्रायप्रहेलिकादिरूपां वा कविक्रियां पप्रच्छ-अनुयुयोज ॥ ७॥ पात्राण्यमा ननृतुः पदे पदे, समुन्ननादाऽऽनकदुन्दुभिर्मुदे। घनाधनस्य भ्रमतो वदावदे, मयूरवर्गे नटनान्निसर्गतः ॥ ८॥ अन्वयः-आनकदुन्दुभिः मुदे समुन्ननाद अमाः पात्राणि पदेपदे ननृतुः, यनाधनस्य भ्रमतः वदावदे मयूरवर्गे निसर्गतः नटनात् ॥ ८ ॥ व्याख्या-आनकदुन्दुभिः आनका प्रोत्साहकः दुन्दुभिः-देपवाद्यविशेषः मुदे-सुर-नरादीनां प्रीत्यै समुन्ननाद-दध्यान अतएव अमाः देवाः पात्राणि नाटयार्थाऽभिनयशीलनायकादिरूपाः सन्तः पदेपदे प्रतिस्थानं नन्तुः-नृत्यं कृतवन्तः । यद्वा अमाः पात्राणि-दिव्यनाट्यार्थाभिनेतन् गन्धर्वाद्यप्सरादीन् वा ननृतुः अन्त. भांवितण्यर्थतया नतैयामामुरित्यर्थः तथाहि-धनाधनस्यन्वर्युकमेघस्य 'वर्षकान्दो धनाधनः' इत्यसरः भ्रमतः प्रावृषि नभसि सञ्चरतः सतः वदावदे-मुहुः केकामातन्वाने मयूरवर्गे-मयूरसंहतो निसर्गतः सभावादेव नटनात् नर्तनात् नृत्यप्रवणत्वदर्शनादित्यर्थः ननृतुरि त्यर्थः । अत्रोदात्तालंकारः ॥ ८॥ दिवानिशं केलिकलाकलापै, रालीषु तालीविधिनोपजापैः । सत्याः सुदत्या दिवसाः सुखेन, सुर्यः सतूर्या गमयाम्बभूवुः ॥९॥ अन्वयः---दिवानिशम् आलीषु केलिकलाकलापैः (तथा) तालीविधिना उपजापैः सुदत्याः सत्याः (राज्याः) दिवसाः सतूर्याः सुर्यः सुखेन गमयाम्बभूवुः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy