SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३३ सप्तभङ्गी नयप्रदीपप्रकरणम्। "अहो! चित्रं चित्रं तव चरितमेतन्मुनिपते! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेतॄणां पुनरिह विभो ! दुष्टनयताम्" ॥२॥ -[रत्नप्रभाचार्यकृतस्तुतिद्वात्रिंशिका ] जिनमते यत् किञ्चिन्नयैर्विहीनं न भवति, यदुक्तं विशेपावश्यके "नत्थि नएहि विहूणं सुत्तं अत्थो अ जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥" [ गाथा-२२७७ ] लौकिकराजनीतीनां विपक्षापेक्षाणां दुष्टत्वं विपक्षक्षेतृणां सुनयत्वम्, तद्वैपरीत्यं च श्रीमतो भगवतो वीरस्य नीतीनामिति चित्रमेतदित्याह–अहो इति, हे मुनिपते ! श्रीमन्महावीर! एतत् तव चरितं चित्रं चित्रम् । किं तदित्यपेक्षायामाह-स्वकीयानामिति-विविधविषयव्याप्तिकशिनां स्वसम्बन्धिनां विपक्षापेक्षाणां नयानां सुनयतां त्वं कथयसि, हे विभो ! विपक्षक्षेतृणां तेषां नयानां पुनः दुष्टनयतां कथयसीति महदाश्चर्यमित्यर्थः ॥ १ ॥ जिनमते वस्तुमात्रव्यापित्वं नयानामित्युपदिशति-जिनमत इति । उक्तार्थे विशेषावश्यकसंवादमुपदर्शयति-यदुक्तमिति । नत्थीति "नास्ति नयैर्विहीन सूत्रमर्थश्च जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्" ॥ इति संस्कृतम् । ३ सप्तभङ्गी. NAMMAR
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy