________________
२४
शाक्यं निरस्तस्याः
का
. बालबोधिनीधिवृतिविभूषितं निराकाङ्क्षार्थावबोधस्तदेव वाक्यं प्रमाणवाक्यम्, निराकाङ्क्षार्थावबोधश्च जैनाभ्युपगतसप्तभनयात्मकमहावाक्यत एवेति सप्तभङ्गीवाक्यमेव प्रमाणवाक्यम् । ननु घटेऽस्तित्वस्यैकस्य धर्मस्यावगतिनिबन्धनं घटोऽस्तीति वाक्यं निराकाङ्क्षार्थावबोधजनकत्वाद् भवति प्रमाणवाक्यम् , उररीकुर्वन्ति चैकान्तवादिनस्तस्य घटविशेष्यकास्तित्वप्रकारकप्रमात्मकबोधजनकत्वेन प्रमाणवाक्यत्वमिति नार्थः कश्चित् सप्तभङ्गीवाक्यस्येति तदुपासना महामोहविजृम्भितेति चेत्, न यतो यद् वस्तु तद् अस्तीति सामान्यतः सकलजननिर्णीतमेवेति न तद्विषयकः सामान्यतोऽस्ति संशयः, किन्तु विशेषत एवेति तयपोहाय यदि घटोऽस्तीति वाक्यमस्तित्वविशेषपराऽस्तीतिपदघटितं प्रयुञ्जीत वक्ता, तदा सर्व वाक्यं सावधारणमिति कृत्वा घटोऽस्त्येवेत्येवंरूपं तद्वाक्यमेषितव्यम् , एवं चास्तित्वं यथा घटस्य तथा पटादेरपीति यद्रूपेण पटस्यास्तित्वं तद्रूपेण घटस्याप्यस्तित्वं सर्वथाऽस्तित्वस्वरूपं प्रसज्यत इति घटोऽस्त्येवेति वाक्येन सर्वात्मना घटस्यास्तित्वं बाधितमेव प्रतीयत इति बाधितार्थविषयकप्रतीतिजनकत्वान्न प्रमाणवाक्यत्वमस्येति घटाऽसाधारणास्तित्वावगतिनिबन्धनमेव वाक्यं प्रमाणवाक्यमास्थयम्, तच्च 'स्यादस्त्येव घटः' इत्येवंरूपमेव भवितुमर्हति, तत्रानेकान्तद्योतकेन त्याद्यन्तप्रतिरूपकेण 'स्याद' इत्यनेन कथञ्चिदर्थे निवेदिते स्वद्रव्य-क्षेत्र-काल-भावैरस्तित्वमेव घटस्य प्रतीयते, ततश्च तत् किं नास्तित्वमपि घटस्य ? येन स्वद्रव्यक्षेत्रकालभावरस्तित्वं विशिष्यत इत्याकाङ्क्षा समुपतिष्ठत इति न निराकाङ्क्षपरिपूर्णार्थबोधः 'स्यादस्त्येव घटः' इति वाक्यात् , तत उक्ताकासानिवृत्तये 'स्मानास्त्येव घटः' इति वाक्यमवश्यमेव प्रयोक्तव्यम् ,तत्र सर्वप्रकारनास्तित्वं शून्यतामेष द्रढयेदिति परद्रव्यादिभिर्नास्तित्वावगतये स्यादिति । एवं प्रथमभनेन कथञ्चिदस्तित्वात्मकैकधर्मस्यैवायवोषः, द्वितीयभनेन च कथञ्चिन्नास्ति