SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं इति समसमये विधि-निषेधयोरनिर्वचनीयख्यापनाकजल्पनाविभनया चतुर्थो भङ्गः ॥१८॥ 'स्यादस्त्येव स्यादवक्तव्यमेव' इति विधिप्राधान्येन युगपद्विधि-निषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया पञ्चमो भङ्गः ॥ १९ ॥ 'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति निषेधप्राधान्येन युगपद्विधिनिषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया षष्ठो भङ्गः ॥ २० ॥ 'स्थादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेव' इति क्रमात् सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधानिर्वचनीयख्यापनाकल्पनाविभजनया च सप्तमो भङ्गः ॥२१॥ __ अथार्थतः प्रथमभङ्गं प्रचिकटयिषुराह-स्थादस्त्येवेति-विधिप्राधान्यविवक्षायामयं भङ्गः । स्याद्' इत्यनेकान्तद्योतकमव्ययम्, मेव सर्वम्' इति पञ्चमो भङ्ग इत्याह-'स्थादस्त्येव स्यादवक्तव्यमेव' इति । निषेधप्राधान्येन युगपद्विधिनिषेधप्राधान्येन च नास्तित्वानिर्वचनीयत्वांशकल्पनाविभजनया 'स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति षष्ठो भङ्ग इत्याह-'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति । क्रमेण सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधप्राधान्यकल्पनया च 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति सप्तमो भङ्ग इत्याह-'स्थादस्त्येव स्यान्नास्त्येव यादवक्तव्यमेव' इति । सामान्यतोऽभिहिता अपि सप्त भङ्गा यथावदनुपपादिता न परीक्षकाणामभ्युपगमपदवीमारोहन्तीत्यतो विशिष्यार्थदिदर्शयिषयाऽऽह-अथेति । अस्तित्व-नास्तित्वादिसप्तविधधर्माऽऽकलिते वस्तुनि सप्तापि धर्मा अवबोधनीया इति किमर्थमेकधर्मप्रतिपादक एवायं भङ्ग इत्यपेक्षायामाहविधिप्राधान्यविवक्षायामिति–सन्ति वस्तुनि सप्तापि धर्माः, ते सर्वे
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy