SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं प्रतिपदार्थं प्रतिधर्मं परिप्रश्नकाले एकैकशो वस्तुधर्मे एकैकैव सप्तभङ्गी भवतीति नियमः । अनन्तधर्मविवक्षया सप्तभङ्गीनामपि नानाकल्पनमभीष्टमेव, एतत् तु सूत्रकारेणैव ज्ञापितम्, तथाहि “विधि निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ॥ ३८ ॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् " ॥ ३९ ॥ इति ॥ अथ सप्तभङ्गी स्वरूपतः प्रदर्श्यते, तथाहि - 'स्यादस्त्येव इत्यस्य 'नियमः' इत्यनेनान्वयः, यद्यप्यनन्तधर्माध्यासिता अनन्ता एव पदार्थाः, तथाऽप्येकस्मिन् पदार्थे एकधर्ममधिकृत्य प्रश्नाः सप्तैवेति तदुचरवाक्यरूपा एकैव सप्तभङ्गी भवतीति नियमः, 'एकत्र धर्मिणि' इत्युपादानेन 'एकैकधर्मपर्यनुयोगवशाद्' इत्युपादानेन चेत्यर्थः । यद्येकधर्मविवक्षया एका सप्तभङ्गी, तर्हि अनन्तधर्मविवक्षया अनन्ता सप्तभक्त्यपि स्यादित्यत्रेष्टापत्तिमाह- अनन्तधर्मविवक्षयेति - एकत्र धर्मिणि यावन्तो धर्मास्तत्र प्रत्येकधर्मविवक्षया एकैकसप्तभङ्गीसम्भवे तावत्यः सप्तभङ्ग्यः स्युरेवेत्यर्थः । एतत् तु सप्तभङ्गीनामनन्तत्वं पुनः । सूत्रकारे - णैव प्रमाण - नयतत्वालोकालङ्कारसूत्रकृता श्रीदेवसूरिणैव । तज्ज्ञापके सूत्रे उल्लिखति-विधि - निषेधप्रकारापेक्षयेति सूत्रे स्पष्टे । सप्तभङ्गसमूहरूपायाः सप्तभञ्ज्याः समूहिनां सप्तानामपि भङ्गानां प्रत्येकं स्वरूपपरिचये खरूपावगतिरित्याशयेन क्रमेण सप्तानामपि भङ्गानां स्वरूपमुपदर्शयति - तथाहीत्यादिना । सत्त्वासत्त्वादिसप्तविधधर्मपरिकर्मिते वस्तुनि अखण्डे सदंशस्य कल्पनया यद् विभजनं पृथक्करणं तेन 'स्यादस्त्येव
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy