SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं नयविचारमयो लिखितो मुदा, यदधुना शिशुनाऽर्थशुभेन वै । अयमुपास्यधियां सुधियां प्रगे, भवतु सौख्यकृते सततं सताम् ॥ इति सप्तभङ्गी - नयप्रदीपप्रकरणं सम्पूर्णम् ॥ ११२ www नयविचारमय इति - अर्थ्यत इत्यर्थ इष्टः, इष्टः शुभो यस्य सोऽर्थशुभः, तादृशेन, अल्पज्ञत्वात् शिशुना - बालेन श्रीयशोविजयेन, 'अर्थशुमेन वै' इति स्थाने 'शिशुना यशसा मया' इति पाठे तु कण्ठत एव नाम प्रतीयते; अधुना इदानीम्, यद् - यस्माद्, मुदा - आनन्देन, नयविचारमयः - नयविचाराभिन्नस्वरूपोऽयं ग्रन्थः, लिखित :- एतद्वन्थसङ्कलितनयविचारस्तु ग्रन्थान्तरे विस्तरेण समस्त्येव मया तु केवलं ततः समाकलय्य सङ्क्षेपेण लिखितः, सोऽयं ग्रन्थः प्रगे - प्रातःकाले, उपास्यधियां सुधियां सतां सततं सौख्यकृते - आनन्दाय भवतु, एतग्रन्थात् फलान्तरं किमप्यहं न कामये किन्तु सततं प्रातःकाले एतद्विषयपरिशीलनतः सज्जनानां प्रमोदो भवत्वित्येव प्रार्थय इत्यभिसन्धिः ॥ इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरु श्रीविजयने मिसूरीश्वरपट्टालङ्कार-व्याकरणवाचस्पति शास्त्रविशारद -कविरत्न - विजयलावण्यसूरिविरचिता श्रीसप्तभङ्गी - नयप्रदीपप्रकरणटीका सम्पूर्णा । छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं घीमताम् । नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने येषां दोषगणप्रमार्जन विधिः स्वाभाविकोऽयं यतः ॥ १ ॥
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy