SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीविवृतिविभूषितं कुम्भम्, क्रियते कुम्भ इति । लिङ्गभेदे-तटस्तटी तटमिति । सङ्ख्याभेदे-दाराः, कलत्रम् , गृहाः। पुरुषभेदे-एहि ! मन्ये-रथेन ------ लिङ्गभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-लिङ्गभेद इतितट इति पुल्लिँङ्गप्रतिपाद्यस्तटरूपोऽर्थोऽन्यः, अन्यस्तटीति स्त्रीलिङ्गप्रतिपाद्यः, ताभ्यामन्यश्च तटमिति नपुंसकलिङ्गप्रतिपाद्य इत्येवं शब्दनयोऽभिमन्यते । __ सङ्ख्याभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-सङ्ख्याभेद इतिबहुवचनान्तदारपदप्रतिपाद्यो दाररूपार्थोऽन्यः, ततोऽन्यः कलत्रमित्येकवचनान्तकलत्रपदप्रतिपाद्यः, तस्मादन्यश्च बहुवचनान्तगृहपदप्रतिपाद्यः, "न गृहं गृहमित्याहुहिणी गृहमुच्यते" इति वचनाद् गृहकार्यनिपुणायां स्त्रियामपि गृहशब्दो वर्तत इति स्त्रीबोधकोऽयं गृहशब्द इति, अन्यथैकवचनान्तपदप्रतिपाद्याद् गृहरूपार्थाद् बहुवचनान्तगृहपदप्रतिपाद्योऽन्य एवेति सङ्ख्याभेद नार्थभेद इति शब्दनयोऽभ्युपगच्छतीत्यर्थः। ___ उत्तम-मध्यमाऽन्यपुरुषभेदेनाऽर्थभेदप्रतिपादकं शब्दनयमुदाहर्तुमाह-पुरुषभेद इति-अस्मच्छब्दवाच्योऽर्थ उत्तमपुरुषः, युष्मच्छब्दवाच्योऽर्थों मध्यमपुरुषः, ताभ्यामन्योऽर्थोऽन्यपुरुषः, तबोधकप्रत्ययभेदे योऽर्थभेदस्तत्प्रतिपादकमनन्तरमुच्यमानमुदाहरणमित्यर्थः । किं स्वरूपं तदित्याकाङ्क्षायामाह-एहीत्यादि । एहि आपूर्वकस्य इधातोर्विध्यादौ मध्यमपुरुषैकवचने रूपम् , 'आगच्छ' इति तदर्थः। मन्ये मन्धातोर्वर्तमानायामुत्तमपुरुषैकवचने रूपम् , वक्ष्यमाणसूत्रबलाद 'मन्यसे, मन्येथे, मन्यध्वे इति' मध्यमपुरुषस्थाने उत्तमपुरुषस्य एकवचनान्तत्वेन निर्देशः, अर्थस्तु मध्यमपुरुषमाश्रित्य वाच्यः, तत्र यद्यपि
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy