SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भङ्गत्रये प्रतिज्ञातस्य सकलादेशत्वस्योपपादनाय तत्त्वार्थवृत्तिकृदाह___ “यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावात् । इह आत्मादिरेकोऽर्थः सचादेरेकस्य गुणस्यतद् रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासवादेस्तत्रानाश्रयणात् , तत्र द्रव्याथाश्रयं सत्वगुणमाश्रित्य, तदा स्यात् सन्नित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्तिर्भवति, उभयात्मकन्वाद् गुणिनः, नत्वे को गुणो भागवृत्तिरिति, एवं स्यानित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसचमसत्चमनित्यत्वं चाङ्गीकृत्य स्यादसत , स्यादनित्य आत्मेति वाच्यम् । युगपद्धावादुमयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनु पात्तत्वात् स्यादवक्तव्यः" इति। इदमस्य व्याख्यानं यथा-यदेति तदा सन्नित्युच्यते इत्यग्रेतनतदाशब्दसमाश्रयणेन, अनेकेन गुणरूपेणाभिन्नमेकं वस्तु यदा द्रव्यार्थाश्रयं सत्त्वमाश्रित्योच्यते तदा सकलादेश इति सम्बन्धः, कथमुच्यते इति कथम्भावाकाङ्क्षायामग्रे प्रतिपादितं स्यात्सन्नित्युच्यते इति, अनन्तधर्मात्मकस्य वस्तुनः थं गुणरूपेणाभिधानं तदन्तरेण कथं स्यात्सन्नित्येवंरूपेण सच्चात्मकगुणसमाश्रयणतस्तदवबोधक्रवचनप्रवृत्तिः, तदभावे
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy